________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३०॥
॥ ३१ ॥
॥ ३२॥
।। ३३ ॥
।। ३४ ।।
।। ३५ ॥
नवषट्चतसृणां स्युस्त्रयो बन्धास्तु दर्शने । भूयस्कारादयो द्वौ द्वौ त्रयो द्वौ च क्रमादिह द्वाविंशतेस्तथैवैकविंशतेस्त्र्यूनर्विशतेः । यक्षग्रहाक्षवेदाग्निव्येकानां मोहनामनि नवाष्ट दश च द्वौ च भूयस्कारादयस्त्विह। त्रिपञ्चषडष्टनवदशाभ्यधिकविंशते: एकत्रिंशत एकस्या अष्टौ बन्धास्तु नाम्न्यमी । षट् सप्ताष्टौ त्रयो भूयस्काराद्यास्त्वेकमन्यतः नैव संभवतो भूयस्कारस्वल्पतरावुभौ । वेदनीयेऽप्यवक्तव्यो द्वावेकश्चान्यतस्ततः सप्ततिर्मोहनीयस्य विंशतिर्नामगोत्रयोः । चतुर्णां त्रिंशदन्येषामब्धीनां कोटिकोटयः अतराणां त्रयस्त्रिंशत् सुरनारकिकायुषोः । तिर्यङ्नरायुषोयेष्ठस्थिति: पल्योपमत्रयी अकषायस्थिति मुक्त्वा जघन्या वेदनीयके । स्थितिर्द्वादश मुहूर्तान्यष्टाष्ट नामगोत्रयोः प्रकृतीनां तु शेषाणां जघन्यान्तर्मुहूर्तकम् । अथावरणविघ्नानां त्रिंशत्सातेतरस्य च अष्टादशैव सूक्ष्मादिविकलाक्षत्रिकद्वये । दशाद्याकृतिसंहत्योदिवृद्धिश्च द्वयोर्द्वयोः मधुरश्वेतसुरभिलघूष्णयुग्मके दश। पीताम्लादिषु प्रत्येकं सार्धे द्वे त्वधिकाधिके चत्वारिंशत्कषायेषु पुंवेदे रतिहासयोः । सुरद्विके स्थिरषटके सुखगत्युच्चयोर्दश
॥३६॥
॥ ३७॥
।। ३८ ॥
॥ ३९ ॥
॥ ४० ॥
।। ४१ ॥
૧૮૦
For Private And Personal Use Only