________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अनन्तानन्तमुत्कृष्टं व्यवहारे तु मध्यमम् । वर्गितसंवर्गितं केऽप्यभ्यासेन समं विदुः इत्थं प्राकृतकर्मशास्त्रविवृतेरालोक्य सर्वात्मना सर्वार्थाननु सूत्रितं प्रकरणं सूक्ष्मार्थसंग्राहकम् । यत्किञ्चिन्न मयाऽतिमन्दमतिना प्रोक्तं च हीनाधिकं तच्छोध्यं सकलं वरैः श्रुतधरैः कृत्वा प्रसादं मयि इत्यागमिकाचार्यश्रीजयतिलकरचितं निजस्मृत्यै । सूक्ष्मार्थसंग्रहाख्यं प्रकरणमेतद्वितीयं च
देवभद्रं सकल्याणं जिनेन्द्रं रत्नसप्रभम् । चारित्रप्रभमानौमि देवं चागमिकं गुरुम् शतकं लघुसंस्कृत्य देवेन्द्रगुरुगुम्फितम् । प्रकृतीनां प्रवक्ष्यामि स्वरूपं सुखबुद्धये ध्रुवबन्धोदया ध्रुवसत्ताकाघातिनीः शुभाः । अपरावर्तमानाश्च षडप्येताश्च सेतराः
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्विधविपाकाश्च चतुर्बन्धविधा अपि । प्रकृती : स्वामिसंयुक्ता द्वाराणां वच्मि विंशतिम् (यु.)
विघ्नं वर्णचतुष्कं भीकुत्सातैजसकार्मणम् । निर्माणागुरुलघुनी मिथ्यात्वमुपघातकम्
पू. आ. श्री जयतिलकसूरिविरचितम् ॥ प्रकृतिस्वरूपसंरूपणं प्रकरणम् ॥ ( संस्कृत कर्मग्रन्थ : - ३)
१७७
For Private And Personal Use Only
॥ २०० ॥
॥ २०१ ॥
॥ २०२ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11
॥ ५॥