________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८८॥
॥ १८९॥
॥ १९० ॥
॥ १९१ ॥
॥ १९२ ॥
॥ १९३ ॥
अभ्यासेऽस्य पुना राशेर्युक्तासंख्यातकं लघु । एतावन्तः स्युरेकस्यामावल्यां समया इह द्वाभ्यां त्रिभिश्चतुर्भिश्च पञ्चभिर्गुणिते कमात् । अन्योऽन्याभ्यासराशौ स्युः पदान्येतान्यनुक्रमात् असंख्यातं सप्तमकमाद्यं तुर्यं च सप्तमम् । त्रीण्यनन्तानि रूपेण युतानि मध्यमानि च रूपोनानि च पाश्चात्योत्कृष्टानीत्यागमोदितम् । केऽप्याहुः सप्तमं तुर्यासंख्यं वगितमेकशः रूपयुक्तं च तन्मध्यं रूपोनं ज्येष्ठमादिमम् । सर्वत्रेति दश क्षेपस्तत्र त्रिवर्गिते पुनः लोकाकाशस्य धर्मस्याधर्मस्यैकस्य देहिनः । प्रदेशाश्च निगोदानां कायाः प्रत्येकजन्तवः स्थितिबन्धाध्यवसाया अनुभागास्तथैव च । योगच्छेदप्रतीभागा द्विकालसमया अपि एते दशाप्यसंख्यातास्तस्मिंस्त्रिवर्गिते पुनः । परीत्तानन्तकं हुस्वं ततोऽभ्यासे कृते पुनः युक्तानन्तकमाख्यातं जघन्यं जिनशासने । अभव्यासुमतामेतत्प्रमाणं परिकीर्तितम् वर्गे तस्य जघन्यं स्यादनन्तानन्तकं पुनः । त्रिवर्गितेऽप्यभवति प्रक्षेपा: षडमी इह सिद्धा निगोदजीवाश्च वनस्पत्यङ्गिनोऽखिलाः । कालश्च पुद्गला लोकालोकाकाशप्रदेशकाः प्रक्षिप्तेष्वेष्वनन्तेषु पुनस्त्रिवर्गिते सति । केवलज्ञानदर्शनपर्यायक्षेपतः पुनः
॥ १९४ ॥
॥ १९५ ॥
॥ १९६ ॥
॥ १९७॥
॥ १९८ ॥
॥ १९९ ॥
१७६
For Private And Personal Use Only