SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। १७६॥ || १७७ ॥ ।। १७८ ॥ ।। १७९ ॥ ॥ १८० ।। ।। १८१ ।। शलाकान्तकरात्तस्मात्क्षिपत्यस्य कणान् पुरः । ततोऽनवस्थिते क्षीणे शलाकाख्ये कणं क्षिपेत् अनवस्थितपल्यानामन्योऽन्येषां भृतोज्झनात् । शलाकाख्यं भरत्येष शलाकासर्षपैः पुनः शलाकाख्ये भृते तस्मिंस्तमेवोत्पाट्य सोऽमरः । भृतानवस्थिताख्याने क्षिपत्येकैकसर्षपम् पल्ये प्रतिशलाकाख्ये तदन्ते सर्षपं क्षिपेत् । अनवस्थितपल्यस्य ततो मुञ्चति सर्षपान् इत्यन्योऽन्यशलाकाभिर्भूतयोः पल्ययोर्द्वयोः । क्रमागतानवस्थाख्ये पल्ये पूर्णेऽपि सर्षपैः प्राक् प्रतिशलाकापल्यं क्षिप्त्वा चाग्रेऽनवस्थितम् । तुर्ये महाशलाकाख्ये क्षिपत्येकं स सर्षपम् (यु.) ततः शलाकापल्यस्य क्षिप्त्वाग्रे सर्षपानसौ। पल्ये प्रतिशलाकाख्ये सर्षपं चैकमस्यति ततोऽनवस्थिताख्यं तं पल्यमुत्पाट्य सोऽमरः । शलाकान्तकरान्मुञ्चत्येकैकं सर्षपं पुरः पूरणै रेचनैरेवं भरत्याद्यैद्वितीयकम्। द्वितीयैश्च तृतीयं स तृतीयैस्तुर्यपल्यकम् सशिखेषु भूतेष्वेवं पल्यकेषु चतुर्ध्वपि । चतुष्पल्यकणान् द्वीपोदधिमुक्तकणानपि मेलयित्वा महाराशिं करोत्येकत्र सर्षपैः । रूपोन: सैष संख्यातमुत्कृष्टं कथ्यतेऽत्र तत् मध्ये मध्यं च रांख्यातं त्रिधैवं ज्येष्ठमेव तत् । परीत्तासंख्यातं ज्ञेयं जघन्यं रूपसंयुतम् ॥ १८२ ।। ॥ १८३ ॥ ॥ १८४ ॥ ॥ १८५ ॥ ॥ १८६ ॥ ।। १८७ ॥ ૧૭૫ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy