________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १६४ ॥
॥ १६५ ।।
।। १६६ ॥
||१६७ ।।
।। १६८ ॥
॥ १६९ ॥
संख्यात (तं तु) जघन्यं स्यात् द्वावेवातः परं पुनः । मध्यमं बहुधा यावदुत्कृष्टं तद्यथोच्यते जम्बूद्वीपसमा वृत्ता: सहस्रं योजनान्यधः भित्त्वा रत्नप्रभाकाण्डं वज्रकाण्डान्तसंस्पृशः पल्याश्चत्वार उर्ध्वं तु जगतीवेदिकान्विताः । सशिखाः सर्षपैः पूर्णा यथाविध्यभिधा इमाः अनवस्थितनामाद्यः शलाकाख्यो द्वितीयकः । ततः प्रतिमहापूर्वी शलाकाख्यौ क्रमादुभौ ततः कल्पनया कश्चिद्देवस्तं पल्यमादिमम् । वामेनोत्पाट्य हस्तेन सशिखं सर्षपै तम् एकैकं सर्षपं द्वीपे समुद्रे च क्षिपेत्क्रमात् । तावत्सर्वेऽपि ते यावनिष्ठिताः सर्षपास्ततः द्वीपे वा सागरे वान्त्यं सर्षपं यत्र मुक्तवान् । पूर्ववत्तं सुरो भृत्वा क्षिपत्येकैकमग्रतः क्षिपत्येकं शलाकाख्ये सर्षपं तत्र निष्ठिते । तदन्तकारिणं भृत्वा पूर्ववच्च क्षिपेत्पुरः द्वितीयं निष्ठिते मुञ्चेच्छलाकाख्ये स सर्षपम् । तृतीयं चैवमेवेति कृत्वा पूरणरेचने अनवस्थितपल्यानां शलाकासर्षपैस्ततः । पौनःपुन्येन निक्षिप्तैः शलाकाख्यं स पूरयेत् क्रमायातानवस्थाख्ये शलाकाख्ये च संभृते । तमे (मि) वैष शलाकाख्यमुत्पाट्य पुरतः क्षिपेत् पूर्ववन्निष्ठिते तस्मिन् क्षिपत्येकं स सर्षपम् । पल्ये प्रतिशलाकाख्येऽनवस्थितमनूद्धरेत्
॥ १७० ॥
।। १७१ ॥
॥१७२ ॥
॥ १७३ ॥
॥ १७४ ।।
॥ १७५ ॥
१०४
For Private And Personal Use Only