SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org उपशान्तजिना: स्तोका क्षीणमोहा जिनास्ततः । संख्यातगुणिताः सूक्ष्मानिवृत्तिस्थनिवृत्तिगाः सविशेषास्त्रयश्चैते पुनस्तुल्याः परस्परम् । योग्यप्रमत्तप्रमत्ताः संख्यातगुणिताः क्रमात् देशे सास्वादने मिश्राविरत्योर्जन्तवः स्थिताः । असंख्येयगुणा एते चत्वारोऽपि यथोत्तरम् अयोगिनस्ततोऽनन्तगुणा मिथ्यादृशोऽपि च । अथ द्वारकमायाता ये भावा विवृणोमि तान् द्वेधौपशमिको भावो नवभिः क्षायिकस्तथा । अष्टादशविधो भावः क्षायोपशमिकः पुनः एकविंशतिभेदोऽत्र भाव औदयिकस्तथा । स्यात्पारिणामिकस्त्रेधा षष्ठोऽथो सान्निपातिकः आद्ये सम्यक्त्व चारित्रे भवेतां च द्वितीयके । ज्ञानदर्शनचारित्रत्रितयं प्रवरं भवेत् लब्धयः पञ्च दानाद्याः सम्यक्त्वं क्षायिकं नव । तृतीये सन्ति चत्वारि ज्ञानान्यज्ञानकत्रयम् दर्शनानां त्रयं पञ्च दानाद्या लब्धयस्तथा । सम्यक्त्वं चरणं देशव्रतमष्टादशेति च चतस्रो गतयस्तुर्ये चत्वारश्च कषायकाः । लिङ्गत्रयं च लेश्याः षडज्ञानासिद्धते अपि मिथ्यात्वासंयमौ चेति भेदाः स्युरेकविंशतिः । अभव्यत्वं च भव्यत्वं जीवत्वं त्रीणि पञ्चमे पञ्चानामपि भावानां त्रिपञ्चाशद्भवन्त्यमी । सान्निपातिकभावस्य भेदाः संभविनो यथा ૧૨ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ १४० ॥ ॥ १४१ ॥ ॥ १४२ ॥ ॥ १४३ ॥ ॥ १४४ ॥ ॥ १४५ ॥ ॥ १४६ ॥ ॥ १४७ ॥ ॥ १४८ ॥ ॥ १४९ ॥ ॥ १५० ॥ ॥ १५१ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy