SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रत्याख्यानांस्तथैवैकादशधा विरतिं विना। आहारकद्वयाधिक्यात् षष्ठे पड्विंशतिः पुनः ॥ १२८॥ वैक्रियाहारकमिश्रोना द्विादश च सप्तमे । वैक्रियाहारकोनास्ते स्युर्विशतिरष्टमे ॥ १२९ ॥ विना हास्यादिषट्केन नवमे ते तु षोडश । विना वेदकषायाणां त्रिकाभ्यां दशमे दश ॥ १३० ॥ एकादशे विना लोभं गुणस्थाने नवैव ते । द्वादशेऽपि हि तावन्त एवैते बन्धहेतवः ॥ १३१ ॥ मनसी वचसी चाद्यचतुर्थे द्वे च कार्मणः । औदारिकद्वयं चेति सयोगे सप्त हेतवः ॥ १३२॥ निर्बन्धहेतुकं ज्ञेयं गुणस्थानं चतुर्दशम् । अष्टौ कर्माणि बध्यन्ते हेतुभ्यस्तत्तथोदितम् ॥ १३३॥ सप्ताष्टावप्रमत्तान्तं यावद् बध्नन्ति जन्तवः । अपूर्वकरणे मिश्रे बादराख्येऽपि सप्त तु ॥१३४ ॥ षट् सूक्ष्मेऽनायुर्मोहानि वेद्यमेकं तदग्रतः । नैवायोगिपदे बन्ध: कलयाम्युदयाद्यथ ॥ १३५ ॥ सत्तायामुदये चाष्टौ यावत्सूक्ष्मकषायकम् । अष्यै सप्तोपशान्ताख्ये क्षीणे सप्तान्य (न्त्य) योर्युगाः ॥ १३६ ॥ उदीरयन्ति सप्ताष्टावप्रमत्तगुणास्पदम् । मिश्रेऽष्टावप्रमत्तानिवृत्त्यपूर्वेषु षट् पुनः ॥ १३७ ॥ वेदनीयायुषी नैषु सूक्ष्मे षट् पञ्च वा पुनः । उपशान्तेऽथ पञ्चैव क्षीणे पञ्चाथवा द्वयम् ॥ १३८ ॥ सयोगे नामगोत्रे द्वे अयोगे नैव किञ्चन । बन्धादय इति प्रोवता वच्यल्पबहुतामथ ॥ १३९ ॥ १७१ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy