________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११६॥
।। ११७॥
॥ ११८॥
॥ ११९ ॥
॥ १२०॥
॥ १२१ ॥
अथ बन्धस्य चत्वारो हेतवः प्रथमा अमी। मिथ्यात्वं चाप्यविरतिः कषाया योगका अपि पञ्च द्वादश पञ्चादिविंशतिः पञ्चयुग्दश । सप्तपञ्चाशदित्येषां क्रमाद् भेदाः स्युरुत्तराः आभिग्रहिकमनाभिग्रहिकाभिनिवेशिके। सांशयिकमनाभोगि मिथ्यात्वमिति पञ्चधा दीक्षितानां किलाद्यं स्यादन्येषां च द्वितीयकम् । गोष्ठामाहिलमुख्यानां मिथ्यात्वं च तृतीयकम् जिनेन्द्रोक्तेषु तत्त्वेषु या शङ्का तच्चतुर्थकम् । यच्चैकेन्द्रियमुख्यानां ख्यातं तदनाभोगिकम् मनसः पञ्चखानां चायन्त्रणं मारणं तथा। षण्णां जीवनिकायानां भेदा अविरताव (तेर) मी पूर्वोदिताः पुनर्जेयाः कषायाः पञ्चविंशतिः । पञ्चदश त एवात्र योगा ये पूर्वभाषिताः हेतवः सप्तपञ्चाशत् सामान्येन भवन्त्यमी । आहारकद्वयेनोनाः पञ्चपञ्चाशदादिमे सासादने च पञ्चाशद्विना मिथ्यात्वपञ्चकम् । मरणाभावतो मिश्रे त्रिचत्वारिंशदित्यमी वैक्रियौदारिकमिश्रकार्मणानन्तबन्धिनः । पञ्चाशतो विनाकृत्य शेषाः सर्वेऽपि सन्ति ते सह पूर्वैस्त्रिभिर्योगैः सद्भावान्मरणस्य तु । चत्वारिंशद्युताः षड्भिर्हेतवस्तुर्यसंश्रये विनौदारिकमिश्राख्यकार्मणत्रसमारणैः । अप्रत्याख्यानकैश्चापि सप्तोनास्ते तु पञ्चमे
॥ १२२॥
|| १२३॥
॥ १२४ ॥
॥ १२५ ॥
।। १२६ ॥
॥ १२७ ॥
१७०
For Private And Personal Use Only