________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्वेऽपि सन्ति मिथ्यात्वे सप्त सासादने त्वमी । पर्याप्तसंज्ञ्यपर्याप्ताः षट् चतुर्थे (चतुर्ये) द्विसंज्ञिनौ संज्ञी शेषेषु पर्याप्तो वच्मि योगान् गुणेष्वथ । मिथ्यात्वाविरतिसम्यग्दृष्टिसासादनेष्विह आहारकद्वयेनोनास्त्रिषु योगास्त्रयोदश । मिश्रे वाकुचित्तयोरष्टौ द्वौ चौदारिकवैक्रियौ ते सवैक्रियमिश्राः स्युरेकादश गृहिव्रते । त्रयोदश प्रमत्ते ते साहारकद्वयाः पुनः अप्रमत्ते वाक्चित्तौदारिकाहारकवैकियाः । सौदारिकमनोवाचो नवापूर्वादिपञ्चके आद्यान्ते मनसी वाचौ कार्मणौदारिकद्वये । सप्तैते योगिनो योगा अयोगी योगवर्जितः
अथाज्ञानत्रयं चक्षुरचक्षुर्दर्शनद्वयम् । सासादने च मिथ्यात्वे स्युः पञ्चैवोपयोगकाः ज्ञानानां दर्शनानां च त्रिके पञ्चमतुर्ययोः । उपयोगाः पुनर्मिश्रे षडेवाज्ञानमिश्रिताः मनोज्ञानयुताः सप्त प्रमत्तादिषु सप्तसु । सयोगायोगयोर्द्वे तु केवलज्ञानदर्शने ज्ञानं सासादने भावे स च नैकेन्द्रियेष्विह । स्यादौदारिकमिश्रोऽपि वैक्रियाहारके पुनः सूत्राधिगतमप्येतन्न कार्मग्रन्थिकैर्मतम् । अधिक्रियेत नात्रापि तेन तन्मतसंश्रयात् श्यास्तिस्रः प्रमत्तान्ता अप्रमत्तान्तके उभे । शुक्ला यावत्सयोगाख्यं निर्लेश्यं स्यादयोगिकम्
૧૯
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १०४ ॥
॥ १०५ ॥
॥ १०६ ॥
॥ १०७ ॥
॥ १०८ ॥
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥
।। ११५ ॥