SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org चतुर्धा वाङ्मनश्चाप्यौदारिको नवमस्तथा । ते सौदारिकमिश्राः स्युर्यथाख्याते सकार्मणाः सवैकियद्वया देशे मिश्रे ते वैक्रियान्विताः । वैकियौदारिकद्वन्द्वे अन्त्या भाषा च कार्मणः असंज्ञिनि षडेते स्युराहारकपदे पुनः । कार्मणेन विना सर्वे निराहारे तु कार्मणः गतौ द्वादश मानव्यामुपयोगास्तथा नव । अन्यासु केवलद्वन्द्वमनोज्ञानविवर्जिताः स्थावरेषु तथैकद्वित्रिखेष्वज्ञानयुग्मकम् । अचक्षुर्दर्शनं चैते चतुष्खेषु सचक्षुषः पञ्चाक्षेषु त्रसे काये योगवेदेषु संज्ञिषु । भव्याहारकयोः शुक्ललेश्यायां द्वादशाप्यमी पञ्चलेश्याकषायेषु दृशोश्चक्षुरचक्षुषोः । हीनाः केवलयुग्मेन दश शेषा भवन्ति ते स्वयुगं केवलयुगे सम्यक्त्वे क्षायिके नव । अज्ञानानां त्रिकं नात्र सप्तैतेषु पदेष्वथ वेदके चौपशमिके ज्ञानेषु चरणेषु च । प्रथमेषु चतुर्ष्वव तथैवावधिदर्शने प्रथमं ज्ञानचतुष्कं दर्शनानां त्रयं तथा । सप्तैते केवलद्वन्द्वं यथाख्याते पुनर्नव ज्ञानानां दर्शनानां च त्रिके द्वे देशसंयमे । अज्ञानमिश्रिता मिश्रे उपयोगास्त एव षट् मनः पर्यायकैवल्यद्विकोना अयते नव । निराहारे मनोज्ञानचक्षुर्दृग्वर्जिता दश ass For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ६८ ॥ ॥ ६९ ॥ ॥ ७० ॥ ॥ ७१ ॥ ॥ ७२ ॥ ॥ ७३ ॥ ॥ ७४ ॥ ।। ७५ ।। ।। ७६ ।। ॥ ७७ ॥ 1192 11 ॥ ७९ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy