________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सास्वादने च मिथ्यात्वे मिश्रे स्थानं निजं निजम् । द्वे असंज्ञिपदे चाद्ये चतुर्दश च संज्ञिनि
आहारकेऽथ पूर्वाणि स्थानकानि त्रयोदश । तुर्यमाद्यान्त्ययुग्मेद्वे पञ्चानाहारके पुनः गुणस्थानानि गत्यादावुक्त्वा योगानथ ब्रुवे । सुरश्वभ्रगतौ योगा एकादश मता अमी अष्यै वचोमनोयोगाः कार्मणो वैक्रियद्वयम् । सौदारिकद्वयास्तिर्यग्गतावेते त्रयोदश नृगतौ काययोगे च त्रसे पञ्चेन्द्रिये नरे । क्लीबे वेदे कषायेषु मतौ श्रुतेऽवधिद्वये अचक्षुर्दर्शने लेश्याषट्के भव्ये च संज्ञिनि । सम्यक्त्वद्वितये चाद्ये योगाः पञ्चदशाप्यमी वैक्रियौदारिकद्वन्द्वे कार्मणः पञ्च चैकखे । विकलाक्षेषु भाषान्त्या कार्मणौदारिकद्वयम् कार्मणौदारिकद्वन्द्वं काये स्थावरनामनि । वैकियद्वयसंयुक्तं वाते त्रयमिदं पुनः प्रथमान्तिमयोर्वाचोर्मनसोश्च युगं युगम् । कार्मणौदारिकद्वन्द्वं सप्तैते केवलद्वये
अज्ञानत्रितयेऽभव्ये स्त्रीवेदे संयमोज्झिते । सास्वादनौपशमिकमिथ्यात्वेषु त्रयोदश आहारकद्वयं नात्र मनोवाग्योगयोरथ । सामायिके मनोज्ञाने च्छेदे चाक्षुषदर्शने कार्मणौदारिकमिश्रौ विनैतेषु त्रयोदश । नवामी सूक्ष्मचारित्रे परिहाराभिधेऽपि च
૧૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ५६ ॥
॥ ५७ ॥
।। ५८ ।।
॥ ५९ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
।। ६४ ।।
॥ ६५ ॥
॥ ६६ ॥
॥ ६७ ॥