________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४४॥
॥ ४५ ॥
॥ ४६॥
॥४७॥
॥ ४८॥
॥ ४९ ॥
बादरैकेन्द्रियादीनि स्युरपर्याप्तकानि षट् । पर्याप्तसंज्ञियुक्तानि सप्त सास्वादनाभिधे तेजोलेश्यापदे द्वेधा संश्यपर्याप्तबादरम् । द्वादशाद्यान्यसंड्याख्येऽनाहारकेऽष्टाविमानि च अपर्याप्तानि सप्तापि पर्याप्तसंज्ञि चाष्टमम् । गत्यादिमार्गणास्थानेष्वेवं स्थानानि देहिनाम् गुणस्थानानि चत्वारि देवश्वभ्रगतिद्वये । पञ्चाद्यानि च तैरश्च्यां मानव्यां च चतुर्दश एकद्वित्र्यब्धिखेषु द्वे पञ्चाक्षेषु चतुर्दश । जलभूतरुषु द्वे द्वे एकं वाताग्निकाययोः चतुर्दश त्रसे काये योगस्थाने त्रयोदशम् । वेदेषु त्रिकषायेषु नव लोभे पुनर्दश नवाविरतिमुख्यानि मतिश्रुतावधिद्वये (ज्ञा-द)। प्रमत्तयतिमुख्यानि मनोज्ञानेऽत्र सप्त च द्वे केवलयुगे त्रीणि द्वे चाज्ञानेषु मुख्यतः । प्रमत्तादीनि चत्वारि च्छेदे सामायिकेऽपि च प्रमत्तादिद्वयं स्थाने परिहारविशुद्धिके । देशव्रते तथा सूक्ष्मसंपराये निजं निजम् यथाख्याते च चत्वार्यन्त्यानि चाद्यान्यसंयमे । द्वादश प्रथमानि स्युरचक्षुश्चक्षुषोद्देशोः षडाद्यासु त्रिलेश्यासु द्वयोः सप्त त्रयोदश। शुक्लायां किल सर्वाणि भव्ये चैकमभव्यके वेदके क्षायिके चैव तथौपशमिके क्रमात् । चत्वार्येकादशाष्टौ च चतुर्थादीनि तान्यपि
॥ ५० ॥
।। ५१ ॥
।। ५२ ॥
॥ ५३॥
॥ ५४॥
૧૬૪
For Private And Personal Use Only