________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandiri
॥ ३२ ॥
।। ३३ ॥
॥ ३४ ॥
।। ३५ ।।
॥ ३६॥
॥ ३७॥
सामायिकं तथा च्छेदोपस्थापनमतः परम् । परिहारविशुद्ध्याख्यं तथा सूक्ष्मकषायकम् यथाख्यातं तथा देशविरत्यविरतिद्वयम् । चारित्रं सप्तधैवं स्यादृष्टिभेदाः पुरोदिताः ज्ञातव्यास्तेऽत्र चत्वारो निराकारा अमी पुनः । षड् लेश्याः कथिताः पूर्वं षट् सम्यक्त्वभिदस्त्वमूः वेदकं क्षायिकं चैव तथौपशमिकाभिधम् । मिश्रं सास्वादनं मिथ्या चान्ये भेदाः पुरोदिताः संज्ञियुग्मं सुरश्वभ्रगत्योः सार्धमसंज्ञिनाम् । अपर्याप्तेन मानव्यां तैरश्च्यां च चतुर्दश एकखे मुख्यचत्वारि द्वे द्वे द्वित्र्यब्धिखेषु तु । पञ्चखेष्वन्त्यचत्वारि जीवस्थानानि संसृतौ चत्वारि स्थावरे काये पूर्वाण्यन्यानि च त्रसे । वाग्योगे पर्याप्तासंज्ञिविकलेन्द्रियसंज्ञिनः मनोयोगे च संश्येकमन्त्यचत्वारि नृस्त्रियोः । क्लीबवेदेऽङ्गयोगे च कषायाविरताख्ययोः द्वयोरज्ञानयोराद्यत्रिलेश्याहारकेषु च । मिथ्यात्वाचक्षुषोभव्याभव्ययोः सकलानि च मतिश्रुतविभङ्गाख्यज्ञानेष्वप्यवधिद्वये। पद्मायां शुक्लेश्यायां सम्यक्त्वत्रयसंज्ञिनोः जीवस्थाने च पर्याप्तापर्याप्तसंज्ञिनोरुभे। त्रीणि षड् वान्त्यपर्याप्तापर्याप्तानि च चक्षुषि मिश्रदृक्पञ्चचारित्रकेवलज्ञानदृष्टिषु । देशव्रते मनोज्ञाने चैकं पर्याप्तसंज्ञिकम्
॥ ३० ॥
॥ ३९॥
॥ ४० ॥
॥ ४१ ।।
॥ ४२ ॥
॥४३॥
૧૬૩
For Private And Personal Use Only