________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २०॥
॥ २१ ॥
॥२२॥
॥२३॥
॥ २४॥
॥ २५ ॥
पर्याप्तकेषु सर्वेऽपि संज्ञिपञ्चेन्द्रियेष्वमी । लेश्याः क्रमविशुद्धाः षट् षड्जम्बूग्राहकोपमाः ताः कृष्णनीलकापोततेजःपद्मसिताभिधाः। बादरेष्वपर्याप्तेषु चतस्रः प्रथमाः पुनः अपर्याप्तपर्याप्तकसंज्ञिस्थानद्वयेऽपि षट् । जीवस्थानेषु शेषेषु तिस्रो लेश्यास्तदादिमाः बन्धः सोदीरणोऽष्टानां सप्तानां वाथ कर्मणाम् । अष्टानां सोदया सत्ता त्रयोदशपदाङ्गिषु स्यात्सप्ताष्टषडेकानां बन्धः स्थाने चतुर्दशे । सत्ताष्टानां सप्तानां च चतुर्णामुदयोऽपि च अत्र सप्ताष्टषट्पञ्चद्वयानां स्यादुदीरणा। इत्युक्त्वाङ्गिपदे वच्मि मार्गणास्थानकेष्वथ गते: खकाययोगानां द्वारं वेदकषाययोः । ज्ञानचारित्रदृष्टीनां लेश्यासम्यक्त्वयोस्तथा भव्याभव्यकयोः संश्यसंज्ञिनोरुभयोरपि । आहारकान्ययोरं द्विषष्टिः सर्वसंख्यया चतुर्विधा गतिस्तत्र श्वभ्रतिर्यङ्नरामरात् । एकद्वित्रिचतुष्पञ्चसंख्यया खानि पञ्च च पृथ्व्यप्तेजोऽनिलवनस्पतयः सत्रसाश्च षट् । योगा मनोवच:काया वेदाः पुंस्त्रीनपुंसकाः क्रोधो मानो माया लोभश्चत्वारोऽत्र कषायकाः । मतिश्रुतावधिमन:पर्यायाणि च केवलम् पञ्च ज्ञानानि चाज्ञानत्रयं तत्र विभङ्गकम् । मतिश्रुताभिधे द्वे चाष्टौ साकाराण्यमूनि तु
॥ २६ ॥
॥ २७॥
॥ २८॥
॥ २९ ॥
॥ ३० ॥
॥ ३१ ॥
૧૨
For Private And Personal Use Only