________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ८० ॥
।। ८१ ॥
।। ८२ ॥
।। ८३ ॥
॥ ८४ ॥
॥ ८५ ॥
अज्ञानत्रयमिथ्यात्वाभव्यसास्वादनेषु तु । अज्ञानानां त्रयं द्वे च दर्शने पञ्च संमता: अविभङ्गास्त एव स्युश्चत्वारोऽसंज्ञिसंज्ञके। उपयोगा इति प्रोक्ता गत्यादिषु पदेष्विह कैश्चित्केवलयोगेषु नानात्वं त्विष्यते यथा । मनोवाक्तनुषु प्राणिगुणयोगोपयोगकाः द्वियक्षयक्षरवयो वसुट्यम्बुधिसागराः । युगद्विशररामाः स्युः प्रत्येकं क्रमतस्त्रिषु तिस्रो लेश्याः श्वभ्रगतिविकलाक्षाग्निवायुषु । चतस्त्र एकखासंज्ञिभूवृक्षाम्बुषु चादिमाः शुक्लैव स्याद्यथाख्याते ससूक्ष्मे केवलद्वये । स्वस्थानं षट्सु लेश्यासु षडप्यन्यपदेषु तु सामान्येनाथ गत्यादौ वच्म्यल्पबहुतामपि । नरा नैरयिका देवास्तिर्यञ्चो गतिषु क्रमात् स्तोका द्वयेऽसंख्यगुणास्ततोऽनन्तगुणाः परे। स्तोकाः पञ्चेन्द्रियास्तेभ्योऽधिका विकलखास्त्रयः तेभ्योऽनन्तगुणाः सन्ति जीवा एकेन्द्रिया भवे। त्रसाग्निक्षितिवार्वायुहरित्कायाः क्रमादथ स्तोका असंख्यगुणितास्ततः समधिकास्त्रयः । तेभ्योऽनन्तगुणाश्चाथ मनोवाक्काययोगिनः स्तोका: संख्यातकानन्तगुणाश्चैते क्रमात्त्रयः । नराः स्तोकास्ततस्तेभ्यः स्युः संख्यातगुणाः स्त्रियः ताभ्योऽनन्तगुणा: क्लीबाः स्तोका मानयुतास्तथा । स्युविशेषाधिकाः क्रोधमायालोभयुताः क्रमात्
।। ८६ ॥
॥ ८७॥
|| ८८॥
।। ८९ ॥
॥९०॥
।। ९१॥
૧૦
For Private And Personal Use Only