________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १३८॥
सिद्धानन्तचतुष्टयस्त्रिजगतीपूज्य: सदा शाश्वतो भव्यात्मा भवति प्रणष्टमरणः श्रीवर्धमानो यथा इत्यागमिकाचार्यश्रीजयतिलकरचितं निजस्मृत्यै । प्रकृतिच्छेदप्रकरणमवगन्तव्यं सदा सद्भिः
|| १३९ ॥
॥
२
॥
पू.आ. श्री जयतिलकसूरिविरचितम् ॥ सूक्ष्मार्थसंग्रहप्रकरणम् ॥
(संस्कृत कर्मग्रन्थः - २) सूक्ष्मार्थसार्थवक्तारं दातारं स्वमहाश्रियः । सूक्ष्मात्सूक्ष्मतमाकारं चिदपारं जिनं स्तुमः षडशीतिकमालोक्य कुर्वे सूक्ष्मार्थसंग्रहम् । जीवानां मार्गणानां च गुणानां स्थानकेषु च योगानुपयोगाँल्लेश्याः कर्मबन्धादिभङ्गकान् । प्रायोऽल्पबहुतां वक्ष्ये भावान् संख्यातकादि च (यु.) जीवस्थानेषु भाव्यानि गुणस्थानपुरस्सरम् । पूर्वं जीवगुणस्थानैर्मार्गणास्थानकेषु तु गुणस्थानेषु चामूनि जीवस्थानकपूर्वकम् । योगादीनि सत्तान्तानि प्रायोऽल्पबहुतादि च (यु.) एकाक्षा बादराः सूक्ष्माः सद्वित्रिचतुरिन्द्रियाः। असंज्ञिसंज्ञिनामानो द्विधा पञ्चेन्द्रियास्तथा अपर्याप्ताः पर्याप्ताश्च सप्तैते द्विगुणाः क्रमात् । जीवस्थानानि संसारे ज्ञातव्यानि चतुर्दश (यु.)
॥३॥
॥४॥
|॥
७
॥
૧૬૦
For Private And Personal Use Only