________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२७॥
।। १२८ ॥
॥ १२९ ॥
॥ १३०॥
॥ १३१ ॥
।। १३२ ॥
क्षयाद्धास्यादिषट्कस्य षष्ठे भागे षडुत्तरम् । पुंवेदस्य क्षयात्तत्र सप्तमे पञ्चभिर्युतम् तुर्यक्रोधक्षयाज्जातं चतुर्युक्तमथाष्टमे । हानेर्मानस्य नवमे शतं स्यात् व्युत्तरं पुनः मायापायात् पुन: सूक्ष्मसंपराये द्विसंयुतम् । लोभान्तात्क्षीणमोहस्योपान्त्ये समय एकयुक् तत्र निद्राद्वयापायादेकोनं चरमे शतम् । ज्ञानावरणविघ्नानां चतुर्दृष्टिभिदां क्षयः पञ्चाशीतिः सयोगाख्ये तथोपान्त्येऽप्ययोगिनः । द्विसप्ततेः क्षयस्तत्र वक्ष्यमाणभिदामिति देवद्विकं तथा गन्धयुगलं खगतिद्वयम् । स्पर्शाष्टकं वपुर्वर्णरससंघातपञ्चकम् पञ्चकं बन्धनानां च संहननानि षट् तथा । संस्थानास्थिरषट्कं च नीचैर्निर्माणसुस्वरम् चत्वारोऽगुरुलघ्वाद्या अङ्गोपाङ्गत्रयं तथा। अपर्याप्तं च प्रत्येकत्रयं वेद्यं तथैककम् इत्येषां क्षयतः शेषाः समयेऽन्त्ये त्रयोदश । मयंगत्यानुपूर्व्यायुस्त्रसादित्रिकमुच्चकैः तीर्थं पञ्चेन्द्रिया जातिरादेयं सुभगं यशः । द्वयोरेकं तथा वेद्यं क्षीयन्तेऽत्र त्रयोदश अथवा द्वादशैवात्र विना मानुपूर्विकाम् । चरमे समये तस्य क्षीयन्ते भव्यदेहिनः त्यक्त्वैवं प्रकृतीर्गुणाश्रयतया बन्धोदयोदीरणाः सत्तास्थानगता महोदयपदे ज्ञानप्रकाशात्मकः ।
।। १३३॥
॥ १३४ ॥
।। १३५ ॥
॥१३६॥
॥ १३७ ॥
૧૫૯
For Private And Personal Use Only