________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वेदानां च कषायाणां तुर्याणां त्रितयस्य च । सूक्ष्मे षष्टिः क्षयस्तत्र तुर्यलोभस्य सर्वथा उपशान्तादिमोहाख्ये स्थाने चैकोनषष्टिका | नाराचर्ष भनाराचसंहत्योरिह तु त्रुटि:
क्षीणस्योपान्त्यसमये निद्राप्रचलयोरन्तः पञ्चपञ्चाशदन्तिमे
पञ्चाशत् सप्तसंयुता ।
दर्शनानीह चत्वारि विघ्नज्ञानभिदो दश । चतुर्दशेति तिष्ठन्ति ततस्तीर्थकरोदयः सयोगस्थानके तेन द्विचत्वारिंशदुद्गताः । औदारिकास्थिराकाशगतियुग्मानि निर्मितिः षट्संस्थानानि पर्याप्तत्रयं वर्णचतुष्टयम् । तैजसकार्मणाङ्गे द्वे आदिमा संहतिस्तथा चत्वारोऽगुरुलघ्वाद्याः सुस्वरं दुःस्वरं तथा । असातसातयोरेकं वेदनीयं द्वयोरपि
त्रिंशदेषा स्थिता पश्चादयोगे द्वादशोदयः । त्रसादित्रिकमादेयं यशः सौभाग्यमुच्चकैः वेदनीयं द्वयोरेकं जाति: पञ्चेन्द्रियाभिधा । मनुष्यायुर्गती तीर्थमेतेऽत्यन्तसमक्षयाः उदीरणापि सर्वत्र ज्ञातव्योदयसन्निभा । विशेषोऽस्ति पुनस्तस्यां त्रिषु स्थानेषु तद्यथा ये योगदे भेदाद्विचत्वारिंशदुद्गताः । सातासाते नरायुश्च तन्मध्यात्त्रयमुद्धृतम् एतत्त्रयं च ताः पञ्च याः पूर्वमुदयोदिताः । त्रुट्यन्तेऽष्टौ प्रकृतयः प्रमत्तयतिनामनि
૧૫૦
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १०३ ॥
॥ १०४ ॥
॥ १०५ ॥
॥ १०६ ॥
॥ १०७ ॥
॥ १०८ ॥
॥ १०९ ॥
॥ ११० ॥
॥ १११ ॥
॥ ११२ ॥
॥ ११३ ॥
॥ ११४ ॥