SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मिथ्यादृष्टयै पुनर्ज्ञेयं शतं सप्तदशोत्तरम् । मिश्रं सम्यक्त्वमार्हन्त्यमाहारकद्वयं विना मिथ्यात्वमातपं सूक्ष्मत्रयं चात्र निवर्तितम् । सास्वादनगुणे शेषं शतमेकादशाधिकम् नरकस्यानुपूर्व्या नोदयः सास्वादने पुनः । अत्रानन्तकषायाणां स्थावरस्य च कर्मणः एकेन्द्रियादिजातीनामन्तश्चतसृणामपि । मिश्रे शतं यतो मिश्र मिश्रस्यास्ति ध्रुवोदयः तिसृणामानुपूर्वीणां शेषाणामुदयो न तु । मिश्रस्यैवैकभेदस्य मिश्रस्थाने त्रुटिर्भवेत् चतुर्युक्तमविरतिसम्यग्दृष्टौ शतं भवेत् । सम्यक्त्वस्यानुपूर्वीणां पञ्चानां वृद्धितः पुनः नरकामरगत्यानुपूर्व्यायुरपकीर्त्तयः । तिर्यङ्नरानुपूर्व्यं च दुर्भगं वैकियद्वयम् सम्पराया द्वितीयाश्चानादेयं दश सप्त च । प्रक्षीणा देशविरतौ सप्ताशीतिः स्थिता परम् तिर्यग्गत्यायुषी नीचैः संपरायास्तृतीयकाः । उद्योतमष्टमं चेति भेदा देशव्रते गताः एकाशीतिः प्रमत्ते ते शेषाः साहारकद्वयः । स्त्यानद्धत्रितयस्यान्तोऽत्राहारकद्वयस्य च षट् सप्ततिरप्रमत्ते चतुर्णामिह तु त्रुटि: । सम्यक्त्वस्य तथा प्रान्त्यसंहतीनां त्रयस्य च द्विसप्ततिभिदोऽपूर्वेऽत्रान्तो हास्यादिषभिदाम् । षट्षष्टिरनिवृत्त्याख्ये षण्णां छेदोऽत्र निश्चितम् ૧૫૬ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ९१ ॥ ॥ ९२ ॥ ॥ ९३ ॥ ॥ ९४ ॥ ॥ ९५ ॥ ॥ ९६ ॥ ॥ ९७ ॥ ।। ९८ ।। ॥ ९९ ॥ ॥ १०० ॥ ॥ १०१ ॥ ॥ १०२ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy