SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७९ ॥ ॥ ८०॥ ।। ८१ ॥ ।। ८२ ॥ ॥ ८३ ॥ ॥८४ ॥ देवायुर्यदि नोच्छिनमप्रमत्ते तदाऽस्यति । सप्तपञ्चाशदायान्ति षट्पञ्चाशदिहान्यथा आहारकद्वयाधिक्याद् भवन्त्येकोनषष्टिका । अप्रमत्तेऽष्टपञ्चाशदथवा कर्मणां भिदः अपूर्वस्यादिमे भागेऽष्टपञ्चाशत्पुरोदिताः । पञ्चमेंऽशेऽथ षट्पञ्चाशन्निद्राद्वितयक्षयात् एतस्यैवाथ षष्ठेऽशे विच्छेदस्त्रिंशतो यथा । औदारिकं विनाऽङ्गानि चत्वार्युपाङ्गकद्वयम् वर्णाद्यगुरुलघ्वाद्ये चतुष्के द्वे सुद्धयम् । त्रसादिनवकं तीर्थंकरं शुभनभोगतिः आद्यसंस्थाननिर्माणे जातिः पञ्चेन्द्रिया तथा। चरमेंऽशे त्वपूर्वस्य बन्धः षड्विशतेर्भवेत् हास्यं रतिर्जुगुप्सा भीश्चतस्रोऽत्रैव संस्थिताः । द्वाविंशतेर्भिदां मध्यादनिवृत्त्यंशपञ्चके पुंवेदस्य कषायाणां तुर्याणां क्रमतस्त्रुटेः । तिष्ठन्तीह भिदः स्थाने शेषाः सप्तदशोत्तराः पञ्चान्तरायकर्माणि ज्ञानस्यावरणानि च । दर्शनानि च चत्वारि गोत्रमुच्चैर्यशोऽपि च षोडशैताः प्रकृतयः स्थिताः सूक्ष्मकषायके । सातस्य बन्धविच्छेदस्त्रिषु स्थानेष्वतः परम् सयोगस्थानके बन्धस्यान्तो भव्यस्य सर्वथा । अभव्यस्य पुनर्नैव बन्धस्यान्तोऽत्र कर्हिचित् स्युभविंशं शतं भेदाः सामान्येनोदये यतः। मिश्रसम्यक्त्वभेदौ द्वावधिको बन्धभेदतः ॥ ८५ ॥ ।। ८६ ॥ ॥ ८७॥ ॥८८ ॥ ॥ ८९॥ ।। ९० ॥ ૧૫૫ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy