SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सप्तषष्टिभिदो नाम्नस्त्रिपञ्चाशत्तथाऽपराः । कर्मप्रकृतयो बन्धे शतं विंशतिसंयुतम् नाम्नः प्रकृतयः शेषा अन्तर्भूता इहैव तु । मिश्रसम्यक्त्वभेदौ तु न बध्येते कदाचन स्युमिथ्यात्वे गुणस्थाने शतं सप्तदशोत्तरम् । आहारकद्वयं तीर्थं चात्र बध्नन्ति न त्रयम् श्वभ्रगत्यानुपूर्व्यायुश्चतस्रः पूर्वजातयः । स्थावरादिचतुष्कं च हुण्डातपनपुंसकम् मिथ्यात्वं छेदवृत्तं च मिथ्यात्वे षोडशत्रुटि: । सास्वादन गुणस्थाने शेषमेकोत्तरं शतम् तिर्यग्गत्यानुपूर्व्यायुस्तथा स्त्यानर्द्धिकात्रयम् । दुर्भगादित्रयं मध्यसंस्थानानां चतुष्टयम् संहननानि चत्वारि मध्यान्युद्योतनीचकैः । अनन्ताख्याः कषायाश्च स्त्रीवेदः कुनभोगतिः पञ्चविंशतिहानेः स्युः शेषाः षट्सप्ततिः परम् । स्याच्चतुःसप्ततिर्मिश्रे बन्धोऽत्र द्व्यायुषोर्न यत् द्वयास्तीर्थकरैः सार्धं चतुर्थे सप्तसप्ततिः । द्वितीयं च कषायाणां चतुष्कं मनुजत्रयम् औदारिकाङ्गमस्याङ्गोपाङ्गं चादिमसंहतिः । दशानां हानित: सप्तषष्टिः पञ्चमके भिदः तृतीयं च कषायाणां चतुष्कमिह हीयते । षष्ठे त्रिषष्टिरन्तो ऽत्र षण्णां भित्सप्तकस्य वा असातारतिशोकाख्यास्थिराकीर्त्यशुभानि षट् । हीयते यदि देवायुस्तदा सप्त प्रकीर्तिताः १५४ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ६७ ॥ ॥ ६८ ॥ ॥ ६९ ॥ ॥ ७० ॥ ॥ ७१ ॥ ॥ ७२ ॥ ॥ ७३ ॥ ॥ ७४ ॥ ॥ ७५ ॥ ॥ ७६ ॥ ।। ७७ ।। ।। ७८ ।।
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy