SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अथ बन्धनसंघातौ पञ्चभेदौ पृथक् पृथक् । पुराङ्गग्रहणेनात्तौ दश भेदास्तयोरमी वर्णाः पञ्च रसाः पञ्चाष्टौ स्पर्शा गन्धयुग्मकम् । पूर्वत्रिषष्टियुक्ताः स्युर्भेदास्त्रिनवतिस्त्वमी अथवा पञ्चदशभिर्भेदैर्बन्धनकर्मणः । अष्टाशीत्या समं नामभेदाः स्युस्त्र्युत्तरं शतम् औदारिकादिदेहानामन्योऽन्यं पुद्गलानिह । यद्बध्नाति तदङ्गाख्यबन्धनं तज्जतूपमम् औदारिकस्य चत्वारो निजतैजसकार्मणैः । द्वाभ्यां च वैक्रियस्यापि तथैवाहारकस्य च स्वकार्मणकृतौ द्वौ च तैजसस्यैककार्मणः । बन्धनानाममी भेदा ज्ञेयाः पञ्चदश क्रमात् यदौदारिकाद्यङ्गानां संघातयति पुद्गलान् । संघातं पञ्चधा ज्ञेयं तत्तदङ्गाभिधानतः कृष्णो नीलश्च रक्तश्च पीतः श्वेतश्च वर्णकाः । तिक्तकटुकषायाम्लमधुराख्या रसाः स्मृताः गुरुर्लघुमृदुखराः शीतोष्णौ स्निग्धरूक्षकौ । स्पर्शाः सुरभिदुरभी गन्धौ चेति भिदां भिदः उचैनीचैर्द्विधा गोत्रं कुम्भकारसमं मतम् । कर्मान्तरायकं पञ्चभेदं भाण्डाधिकारिवत् स्युर्दानलाभवीर्याणां भोगोपभोगयोरपि । अन्तरायकृतेः पञ्च भेदा अस्योत्तरा अमी पञ्चपञ्चाशदन्येषां नाम्नश्च त्र्युत्तरं शतम् । संमीलने शतं जातमष्टपञ्चाशदुत्तरम् १५3 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ५५ ॥ ॥ ५६ ॥ ॥ ५७ ॥ ।। ५८ ।। ॥ ५९ ॥ ॥ ६० ॥ ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६५ ॥ ॥ ६६ ॥
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy