SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ३१ ॥ ।। ३२ ॥ ॥ ३३ ॥ ॥ ३४ ॥ ॥ ३५ ॥ ॥ ३६॥ यानेऽप्यायाति या निद्रा प्रचलाप्रचलेति सा। दिनचिन्तितकार्यस्य स्त्यानद्धिः साधिका पुनः वेदनीयं द्विभेदं स्यादसातं सातमेव च । मधुलिप्तासिधारायाः स्वादतुल्यमुदीरितम् मद्याभं मोहनीयं च तस्याष्टाविंशतिर्भिदः । कषायाः षोडश प्रोक्ता नोकषायास्तथा नव क्रोधो मानो माया लोभश्चत्वारोऽपि चतुर्विधाः । संज्वलनप्रत्याप्रत्याख्यानानन्तानुबन्धिनः पक्षं संज्वलनाः प्रत्याख्याना मासचतुष्टयम् । अप्रत्याख्यानका वर्षं जन्मानन्तानुबन्धिनः हासो रत्यरती भीति: कुत्सा शोकः षडप्यमी। पुंस्त्रीनपुंसका वेदा नोकषाया अमी नव पञ्चविंशतिभेदं स्यादिदं चारित्रमोहकम् । मिथ्यात्वमिश्रसम्यक्त्वत्रिविधं दर्शनाभिधम् आयुषो हडिकल्पस्य भेदाश्चत्वार एव हि। श्वभ्रतिर्यङ्नरामर्त्यगतिभेदेन निर्मिताः नाम्नश्चित्रकराभस्य द्विचत्वारिंशदुत्तराः । सप्तषष्टिस्त्रिनवतिरथवा व्युत्तरं शतम् गतिजातिशरीराङ्गोपाङ्गबन्धननामकाः । संघातनं च संस्थानं संहननानुपूर्विके वर्णगन्धरसस्पर्शा: खगतिश्चेति संज्ञया । पिण्डप्रकृतयो नाम्नः सर्वा एताश्चतुर्दश पराघातं तथोच्छ्वासमातपोद्योतकेऽपि च (अपि) । अगुरुलघु तीर्थं च निर्माणमुपघातकम् ॥ ३७ ॥ ॥ ३८ ॥ ।। ३९ ॥ ॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥ ૧૫૧ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy