SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७ ॥ ॥८ ॥ 11 ९ ॥ ॥ १० ॥ ॥ ११ ॥ ॥ १२॥ न प्राप्तं यत्र मिथ्यात्वं सम्यक्त्वं वमताऽङ्गिना। तदे (त्रै) व गन्तुकामेन स्वाद्यः सास्वादनो गुणः गुडदोर्यथास्वादो मिश्रयोर्जेमतामिह । मिथ्यासम्यक्त्वयोरेवं मिश्रयोमिश्रको गुणः सम्यक्त्वे सति विरतिर्यत्र स्तोकाऽपि नो भवेत् । सोऽत्राविरतिसम्यक्त्वगुणस्तुर्यो निगद्यते देशतो विरतिर्यत्र स देशविरतिर्गुणः । विकथादिरतो यत्र यति: स्यात्स प्रमत्तक: अप्रमत्तो यतिर्यत्राप्रमत्तयतिक: स तु । निवृत्तिबादरापूर्वकरणौ त्वेकवाचकौ क्रियन्तेऽपूर्वापूर्वाणि पञ्चामून्यत्र संस्थितैः । निवृत्तिबादरस्तेनापूर्वकरण उच्यते स्थितिघातो रसघातो गुणश्रेण्यधिरोहणम् । गुणसंक्रमणं चैव स्थितिबन्धश्च पञ्चमः निवर्तन्तेऽङ्गिनोऽन्योऽन्यं यत्रैकसमयाश्रिताः । निवृत्ति: कथ्यते तेनानिवृत्तिस्तद्विपर्ययात् स्थूलानां लोभखण्डाना वेदको बादरस्तु सः । सूक्ष्माणां तु भवेत्सूक्ष्म उपशान्तः प्रशान्तितः मोहनीये ततः क्षीणे क्षीणमोहो गुणो भवेत् । सयोगः केवली यत्र स सयोगाख्यकेवली अयोगः केवली यत्र स गुणोऽयोगकेवली । गुणानां स्थानकान्याहुस्तेनैतेषां चतुर्दश अभव्यानां तु मिथ्यात्वमनाद्यन्तेन वर्जितम् । सान्तमनादि भव्यानां सम्यक्त्वेऽन्तो यतो भवेत् ॥ १३ ॥ ॥ १४ ॥ ।। १५॥ ॥ १६ ॥ ॥१७॥ ॥१८॥ ૧૪૯ For Private And Personal Use Only
SR No.020964
Book TitleShastra Sandeshmala Part 23
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy