________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
"
अपूर्वकरणात् तेषां तदा ग्रन्थिं भिनत्त्यसौ । प्राप्यानिवृत्तिकरणं, सम्यक्त्वं लभते ततः तेन प्राप्यामृतेनेव, सच्चैतन्यं सुखीभवेत् । लब्धाऽऽस्वाद इवाधत्ते, जिनधर्मे मनः शनैः
गृहस्थ - यतिधर्मं च, प्रवृद्धया प्राप्नुवन्नथ । धौतकर्ममलस्तेन, लभते परमं पदम्
पू.आ.श्रीजयतिलकसूरिविरचितम् ॥ प्रकृतिविच्छेदप्रकरणम् ॥ (संस्कृतकर्मग्रन्थ:-१)
श्रीमद्वीरजिनं नत्वा, वक्ष्ये संक्षेपतस्तथा । गुणस्थानेषु छि(च्छि) द्यन्ते, कर्मप्रकृतयो यथा मिथ्यादृष्टिगुणस्थानं, ततः सास्वादनाभिधम् । मिश्रं चाविरतं चैव, विरताविरतं तथा
प्रमत्तं चाप्रमत्तं च निवृत्तेर्बादरं तथा । बादरं चानिवृत्तेः स्यात्ततः सूक्ष्मकषायकम् उपशान्त क्षीणमोहे, गुणस्थाने क्रमादुभे । सयोगकेवलिस्थानमन्त्यं चायोगिकेवलि जिनादिष्टेषु तत्त्वेषु, न श्रद्धानं भवेदिह । श्रद्धानं चापि यन्मिथ्याऽन्यथा या च प्ररूपणा
Acharya Shri Kailassagarsuri Gyanmandir
संदेहकरणं यच्च, यदेतेष्वप्यनादरः । तन्मिथ्या पञ्चधा तस्मिन् दृग्मिथ्यादृष्टिको गुण: (यु.)
१४८
For Private And Personal Use Only
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11
114 11
॥ ६ ॥