________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२ ॥
॥ १३ ॥
॥ १४ ।।
॥ १५ ॥
॥१६॥
॥ १७ ॥
राग-द्वेष-महामोहयुतस्तीव्रकषायभृत् । देश-सर्वचारित्राख्यमोहनीयस्य बन्धकः मिथ्यादृष्टिः कुशीलञ्च, महारम्भपरिग्रहः । पाप: क्रूरपरिणामो, नारकायुनिबन्धकः उन्मार्गदेशको मार्गनाशको बहुमायिकः । शठवृत्तिः सशल्यश्च, तिर्यग्योन्यायुरर्जयेत् प्रकृत्याऽल्पकषायो यः, शील-संयमवर्जितः । दानशीलो मनुष्यायुर्गुणैर्बध्नाति मध्यमैः अकामनिर्जराबालतपोऽणुव्रतसुव्रतैः । जीवो बध्नाति देवायुः सम्यग्दृष्टिश्च यो भवेत् मनोवचनकायेषु, वक्रो गौरवलम्पटः । अशुभं नाम बध्नाति, शुभं तदितरैः पुनः गुणैषी निर्मदो भक्तो, ह्यहंदाद्याऽऽगमप्रियः । उच्चैर्गोत्रं निबध्नाति, नीचैस्तु तद्विपर्ययात् हिंसाद्यभिरतो मोक्षजिनपूजादिविघ्नकृत् । अर्जयत्यन्तरायाख्यं, कर्माभीष्टार्थबाधकम् कोटाकोट्यः सागराणां, मोहनीयस्य सप्ततिः । चतुर्णां ताः पुनस्त्रिंशत्, विंशतिर्नाम-गोत्रयोः आयुषस्तु त्रयस्त्रिंशत्, सागरा एव केवलाः । उत्कृष्टा स्थितिरित्येवमष्टानामपि कर्मणाम् जघन्या सा तु वेद्यस्य, मुहूर्ता द्वादश स्मृताः । नाम्नो गोत्रस्य चाष्टान्तर्मुहूर्तं शेषकर्मणाम् यथाप्रवृत्तिकरणात्, कर्माण्यात्माऽखिलान्यपि । अस्यैककोटाकोट्यन्तः स्थितीनि कुरुते सदा
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३॥
१४७
For Private And Personal Use Only