________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१॥
॥२॥
॥
३
॥
॥४
॥
॥अष्टविधकर्मस्वरूपम् ॥ इह प्रकृत्या स्वच्छोऽपि, जीवः कर्ममलावृतः । लभते विविधं दुःखं, भ्राम्यन् गतिचतुष्टये तच्च कर्माऽष्टधा, ज्ञानदर्शनावरणे तथा । मोहनीयं वेद्यमायुर्नामगोत्राऽन्तरायकम् मतिश्रुतावधिमन:पर्यायं केवलात्मकम् । ज्ञानं पञ्चविधं तस्याऽऽवरणं चापि पञ्चधा अचक्षु-श्चक्षु-रवधि-केवलं दर्शनावृति । निद्रा पञ्चेति नवधा, दर्शनावरणं भवेत् कषायाः षोडशभिदास्त्रिके मिथ्यात्व-वेदयोः । हास्यादिषट्कं मोहः स्यादऽष्टाविंशतिनिर्मितः सुखे दु:खे द्विधा वेद्यमायुः कर्म चतुर्विधम् । तिर्यग्-नारक-गीर्वाण-मनुष्यगतिभेदतः अप्यनेकविधं नाम, शुभाशुभविभेदतः । द्विविधं गोत्रमप्युच्चै-र्नीचैर्भेदाद् द्विधा भवेत् दान-लाभयोर्वीर्यस्य, तथा भोगोपभोगयोः । प्रत्यूहकरणात् पञ्चविधं कर्मान्तरायकम् प्रतिकूलतया द्वेषादन्तरायादपह्नवात् । ज्ञान-दर्शनयोर्जीवो, बध्नात्यावरणद्वयम् अनुकम्पा-व्रतोद्योग-गुरुभक्ति-क्षमादिभिः । सुवेद्यं बध्यते कर्म, दु:खवेद्यं तथेतरैः सर्वज्ञगुरुसङ्घादौ, प्रत्यनीकतया भृशम् । दर्शनमोहनीयं स्यादनन्तभवकारकम्
॥
७
॥
॥
८
॥
।। १०॥
।। ११ ॥
१४६
For Private And Personal Use Only