________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३७॥
॥ ३८॥
॥ ३९॥
॥ ४० ॥
॥ ४१॥
प्रमाणगोचरौ सन्तौ भेदाभेदौ न संवृती। तावेकत्राविरुद्धौ ते गुणमुख्यविवक्षया नित्यत्वैकान्तपक्षेऽपि विक्रिया नोपपद्यते । प्रागेव कारकाभावः क्व प्रमाणं क्व तत्फलम् प्रमाणकारकैर्व्यक्तं व्यक्तं चेदिन्द्रियार्थवत् । ते च नित्ये विकार्यं किं साधोस्ते शासनाद् बहिः यदि सत्सर्वथा कार्यं पुंवन्नोत्पत्तुमर्हति । परिणामप्रक्लृप्तिश्च नित्यत्वैकान्तबाधिनी पुण्यपापक्रिया न स्यात् प्रेत्यभावः फलं कुतः । बन्धमोक्षौ च तेषां न येषां त्वं नासि नायक: क्षणिकैकान्तपक्षेऽपि प्रेत्यभावाद्यसंभवः । प्रत्यभिज्ञाद्यभावान्न कार्यारम्भः कुतः फलम् यद्यसत्सर्वथा कार्यं तन्माजनि खपुष्पवत् । मोपादाननियामोभून्माऽऽश्वासः कार्यजन्मनि न हेतुफलभावादिरन्यभावादनन्वयात् । संतानान्तरवन्नैकः संतानस्तद्वतः पृथक् अन्येष्वनन्यशब्दोऽयं संवृतिर्न मृषा कथम् । मुख्यार्थं संवृतिर्नास्ति विना मुख्यान्न संवृतिः चतुष्कोटेविकल्पस्य सर्वान्तेषूक्तययोगतः । तत्त्वान्यत्वमवाच्यं च तयोः संतानतद्वतोः अवक्तव्यचतुष्कोटिविकल्पोऽपि न कथ्यताम् । असर्वान्तमवस्तु स्यादविशेष्यविशेषणम् द्रव्याद्यन्तरभावेन निषेधः संज्ञिनः सतः । असद्भेदो न भावस्तु स्थानं विधिनिषेधयोः
॥ ४२ ॥
॥४३॥
॥४४॥
॥ ४५ ॥
॥ ४६॥
|| ४७ ।।
८८
For Private And Personal Use Only