________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४ ॥
॥ २५॥
॥ २६ ॥
॥ २७ ॥
॥२८॥
॥ २९ ॥
अद्वैतैकान्तपक्षेऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश्च नैकं स्वस्मात्प्रजायते कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत् । विद्याऽविद्याद्वयं न स्यात् बन्धमोक्षद्वयं तथा हेतोरद्वैतसिद्धिश्चेद्वैतं स्याद्धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिर्वैतं वाङ्मात्रतो न किम् अद्वैतं न विना द्वैतादहेतुरिव हेतुना। संज्ञिनः प्रतिषेधो न प्रतिषेध्यादृते क्वचित् पृथक्त्वैकान्तपक्षेऽपि पृथक्त्वादपृथक्तु तौ । पृथक्त्वे न पृथक्त्वं स्यादनेकस्थो ह्यसौ गुणः संतान: समुदायश्च साधर्म्यं च निरङ्कुशः । प्रेत्यभावश्च तत्सर्वं न स्यादेकत्वनिहवे सदात्मना च भिन्नं चेत् ज्ञानं ज्ञेयाद् द्विधाऽप्यसत् । ज्ञानाभावे कथं ज्ञेयं बहिरन्तश्च ते द्विषाम् सामान्यार्था गिरोऽन्येषां विशेषो नाभिलप्यते । सामान्याभावतस्तेषां मृषैव सकला गिरः विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्तिर्नावाच्यमिति युज्यते अनपेक्षे पृथक्त्वैक्ये ह्यवस्तु द्वयहेतुतः । तदेवैक्यं पृथक्त्वं च स्वभेदैः साधनं यथा सत्सामान्यात्तु सर्वैक्यं पृथग्द्रव्यादिभेदतः । भेदाभेदविवक्षायामसाधारणहेतुवत् | विवक्षा चाविवक्षा च विशेष्येऽनन्तर्मिणि । सतो विशेषणस्यात्र नासतस्तैस्तदर्थिभिः
॥ ३० ॥
॥ ३१ ॥
॥ ३२ ॥
।। ३३॥
॥ ३४ ॥
॥ ३५ ॥
८७
For Private And Personal Use Only