________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१२॥
॥ १३ ॥
॥ १४॥
॥ १५ ॥
॥ १७ ॥
अभावैकान्तपक्षेऽपि भावापह्नववादिनः । बोधवाक्यं प्रमाणं न केन साधनदूषणम् विरोधानोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते कथञ्चित्ते सदेवेष्टं कथञ्चिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न व्यवतिष्ठते क्रमार्पितद्वयाद् द्वैतं सहावाच्यमशक्तितः। अवक्तव्योत्तराः शेषास्त्रयो भङ्गाः स्वहेतुतः अस्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि । विशेषणत्वात्साधर्म्यं यथा भेदविवक्षया नास्तित्वं प्रतिषेध्येनाविनाभाव्येकर्मिणि । विशेषणत्वाद्वैधयं यथाऽभेदविवक्षया विधेयप्रतिषेध्यात्मा विशेष्यः शब्दगोचरः । साध्यधर्मो यथा हेतुरहेतुश्चाप्यपेक्षया शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः । न च कश्चिद्विरोधोऽस्ति मुनीन्द्र ! तव शासने एवं विधिनिषेधाभ्यामनवस्थितमर्थकृत् । नेति चेन्न यथा कार्य बहिरन्तरुपाधिभिः धर्मे धर्मेऽन्य एवार्थो धर्मिणोऽनन्तधर्मणः । अङ्गित्वेऽन्यतमान्तस्य शेषान्तानां तदङ्गता एकानेकविकल्पादावुत्तरत्राऽपि योजयेत् । प्रक्रियां भगिनीमेनां नयैर्नयविशारदः
॥ १८॥
॥ १९ ॥
।। २० ॥
।। २२॥
॥ २२ ॥
॥ २३ ॥
८६
For Private And Personal Use Only