________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्वेतः शुक्लः सितः शुभ्रो, वलक्षो धवलः शुचिः । गौरोऽवदातो विशदः पाण्डुः पाण्डुर उज्ज्वलः पीतो गौरो हरिद्राभः, पालाशो हरितो हरित् । कालः श्यामः शिति कृष्णं, श्यामलो मेचकोऽसितः नीलो रागोञ्जनाभश्च कर्बुराद्यास्तु मिश्रिताः । युग्मं द्वयं युगं द्वन्द्व-मुभयो युगलं द्वयी यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी । समूहो निवहो व्यूहो, वृन्दं चक्रं कदम्बकम् ओघः संघो व्रजो व्रातो, निकरः प्रकरच सः । संदोहः संहतिः स्तोमो, वारः समुदयो गणः समुदायः समवायो, निकुरम्बश्च सञ्चयः । जाल: कलापः पटल:, संघातः पूगमण्डलौ राशि: पुञ्जोत्करः कूटं जातं यूथं भरः कुलम् । ग्रामो वर्गः समाहारो, निकायो निचयोऽपि च राजिर्मालावलिः श्रेणिस्ततिः पङ्क्तिश्च धोरणी । सर्वं समस्तं सकलं, समग्रं निखिलाखिले विश्वं कृत्स्नं तथाशेषं, खण्डोऽर्धं शकलं दलम् । बहिष्ठं प्रचुरं प्राज्यं, पुष्कलं बहुलं बहु
अदभ्रं भूरि भूयिष्ठं, भूयश्च प्रबलोऽधिकः । स्तोकं तुच्छं दभ्रमल्पं, मात्रं लेशो कणो लवः अणु सूक्ष्मं लघु श्लक्ष्णं, क्षामः क्षीणः कृशस्तनुः । खर्वं ह्रस्वं वामनं च, प्रलम्बं दीर्घमायतम्
उच्च प्रांशुन्नतं तुङ्ग, निम्नं नीचं न्यगानतम् । विवरं कुहरं छिद्रं, रन्ध्रगर्ताऽवय बिलम्
Acharya Shri Kailassagarsuri Gyanmandir
363
For Private And Personal Use Only
॥ ४२० ॥
॥ ४२१ ॥
॥ ४२२ ॥
॥। ४२३ ॥
॥ ४२४ ॥
।। ४२५ ॥
॥ ४२६ ॥
॥ ४२७ ॥
॥ ४२८ ॥
।। ४२९ ।।
॥ ४३० ॥
॥ ४३१ ॥