________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विचालं त्वन्तरं मध्य-मन्तरालं च मध्यमम् । अलं कुटिलं वक्रं सरलप्रगुणर्जवः बृहद्विशालं विस्तीर्णं, महच्च विपुलं पृथुः । स्फारं गरिष्ठं वितत-मुरु व्यूढं गुरु स्मृतम् कठोरः कठिनो रुक्षो, निष्ठुरः कर्कशः खरः । तीव्रोग्रौ दारुणं घोरं, दृढमुद्दाममुत्कटम् सुकुमारः सुखस्पर्शः, कोमलो मृदुलो मृदुः । सुन्दरं रुचिरं रुच्य-मभिरामं मनोहरम् मनोज्ञं मञ्जुलं मञ्जु, पेशलं वल्गु बन्धुरम् । कान्तं रम्यं चारु हरि, कमनीयं मनोरमम् हृद्यं काम्यं रमणीयं, प्रशस्तं साधु शोभनम् । मुख्यः प्रधानप्रवरौ, व्ययौऽग्रयोऽग्रेसरोऽग्रणीः प्रकृष्टश्च परार्ध्यं च, पुङ्गवः सत्तमः परः । पौरस्त्यः प्रथमः पूर्व, आदिराद्यादिमोऽग्रिमः जघन्यः पश्चिमोन्त्यश्च, पाश्चात्यश्चरमोन्तिमः । पूतं पवित्रं मेध्यं च, मलिनं च मलीमसम् निणिक्तं क्षालितं धौतं, उज्ज्वलं निर्मलं शुचि । समानं सदृशस्तुल्यं, संकाशः सन्निभः समः अनुहारश्चोपमानं, साम्यकक्षा तुलोपमाः । समीपं निकटं पार्श्व, समयाभ्यर्णमन्तिकम् उपकण्ठं सन्निधानोपान्ते सविधः सन्निधिः । विप्रकृष्टं परं दूरं, ध्रुवं नित्यं च शाश्वतम् चञ्चलं चपलं लोलं, तरलं चटुलं चलम् । वेल्लितं प्रेङ्खितं धूत- मान्दोलितं च वर्जितम्
३७४
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ४३२ ॥
॥। ४३३ ॥
॥ ४३४ ॥
॥ ४३५ ॥
॥ ४३६ ॥
॥ ४३७ ॥
॥ ४३८ ॥
॥ ४३९ ॥
॥ ४४० ॥
॥ ४४९ ॥
॥ ४४२ ॥
॥ ४४३ ॥