________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २४५ ॥
॥ २४६ ॥
चूर्णानि वासयोगाः स्युः , पिष्टान्तः पटवासकः । वस्त्रादेर्यः सुगन्धाद्यैः, संस्कारः सोऽधिवासनम् आमोदश्च परिमलो, गन्धो वासो विमर्दजः । इष्टगन्धिः सुगन्धि: स्यात्, सुरभिर्घाणतर्पण: कुङ्कुमं घुसृणं वर्णं, रक्तं काश्मीरजन्म च । श्रीखण्डो मलयजश्च, गोशीर्षं चन्दनं स्मृतम् कर्पूरो घनसारश्च, चन्द्राख्यो हिमवालुका । कस्तूरिका मृगमदो, मृगनाभिर्मुगाण्डकः कस्तूरी गन्धधूली च, मदनी मृगनाभिजा।
॥ २४७ ॥
॥ २४८ ॥
........
।। २४९ ॥
॥ २५० ॥
।। २५१॥
।। २५२॥
कृष्णागुरु: काकतुण्डो, राजा/ वंशिकागुरु । चोवाद्वयं तस्य सत्वं, तद्भूपो देववल्लभः परिकर्माङ्गसंस्कारो, मण्डनं च प्रसाधनम् । दर्पणो मुकुरादर्शी, व्यजनं तालवृन्तकम् शोभा कान्तिविभूषा श्रीलक्ष्मीश्छाया धुतिर्छविः । राढाभिख्या च लावण्यं, सुषमा विभ्रमोऽपि च
॥ इत्यङ्गवर्गः ॥ मन्दिरं सदनं सद्म, निलयो भवनं गृहम् । ओको निवास आवासो, धिष्ण्यं धाम निकेतनम् आगारं वेश्म वसतिर्निशान्तं शरणं क्षयः । प्रासाद आलय: सौधं, हर्म्य गेहं कूटाश्रयौ गर्भागारोऽपवरकः, मण्डपो जनताश्रयः । भाण्डागारः कोशकौषौ, प्राङ्गणं चत्वराजिरे
॥ २५३ ॥
॥ २५४॥
॥ २५५ ॥
૩૫૮
For Private And Personal Use Only