________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २३३ ॥
॥ २३४ ॥
॥ २३५ ॥
।। २३६ ॥
॥ २३७ ॥
॥ २३८॥
ग्रैवेयकण्ठाभरणे, कण्ठसूत्रं च कण्ठिका। हारो मुक्तावली मुक्ता-माला मुक्ताकलापकम् हारमध्यमणिः प्रोक्तो, नायकस्तरलोऽपि च । केयूरमङ्गदं बाहु-रक्षकं बाहुभूषणम् कटको वलयावापौ, कङ्कणं करभूषणम् । ऊर्मिका मुद्रिका मुद्रा, ऽभिज्ञानं चाङ्गुलीयकम् रशना मेखला काञ्ची, कलापश्चापि सप्तकी । कटीसूत्रं सारसनं, किङ्किणी क्षुद्रघण्टिका मञ्जीरं पादकटकं, तुलाकोटिश्च नूपुरम् । हंसकं शिञ्जिनी चेति, यावकोऽलक्तकः स्मृतः माला स्रग् दाम माल्यं च, स्नानं मज्जनमाप्लवः । चार्चिक्यं समालभनं, अङ्गरागो विलेपनम् अंशुकं वसनं वस्त्रं, वासश्चीवरमम्बरम् । पटश्च सिचयश्चेलं, वस्त्रस्यान्तोञ्चलः स्मृतः क्षौमं दुकूलं दुगूलं, पट्टकूलं पटोत्तमम् । वेषो नेपथ्यमाकल्पं, उष्णीषो मूर्धवेष्टनम् प्रावार उत्तरासंगो, वैकक्षं वृतिकापि च । परिधानं वेष्टनकं, कच्छा तत्पश्चिमाञ्चलम् कक्षापटस्तु कौपीनं, नक्तक: कर्पटोऽपि च । प्रच्छादनं प्रावरणं, संव्यानं चोत्तरीयकम् कूर्पासः कञ्चुकश्चैव, चोल: कञ्चलिकाङ्गिका। चण्डातकं चलनकं, शाटी चोटी च शाटिका अन्तरीयं निवसनं, परिधानमधोंशुकम् । नीवी तद्वन्धनं ग्रन्थिः, प्रालम्बं झूम्बणं समे
।। २३९ ॥
॥ २४०॥
॥ २४१॥
॥ २४२॥
।। २४३ ॥
|| २४४ ॥
3५७
For Private And Personal Use Only