________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१९७ ॥
॥ १९८ ॥
॥ १९९ ॥
॥ २००॥
।। २०१॥
।। २०२॥
कुमारी कन्यका कन्या, बालिका दिक्करी कनी। तोकापत्ये प्रसूतिस्तुक्, संतानं संततिः प्रजा भ्राता सहोदरो बन्धुः, सहजो बान्धवोऽपि च । भगिनी तु स्वसा जामिः, दम्पती दयितापती वंशोऽन्वयः कुलं गोत्रं, जननाभिजने अपि । सती पतिव्रता साध्वी, दासी चेटी च चेटिका दूति सञ्चारिका चुन्दी, कुट्टिनी सम्भली समा। पण्यस्त्री गणिका वेश्या, रूपाजीवा पणाङ्गना असती पांशुलाऽशीला, स्वैरिणी कुलटेवरी । पुंश्चली बन्धकी धृष्टा, चर्षणी व्यभिचारिणी मित्रं सखा सहचरो, वयस्यः सवयाः सुहृत् । आली सखी वयस्या च, सध्रीची सहचारिणी शरीरं विग्रहो देहो, गात्रं क्षेत्रं तनुस्तनूः । अङ्गः कायो वपुर्वर्ण्य, मूर्ति कलेवरम् संहननं घनो बन्धः, पुरं पिण्डं च पुद्गलम् । हृषीकमक्षं करणं, ग्रहणं च खमिन्द्रियम् आत्मा जीवोऽसुमान् जन्तुर्देही प्राणी च चेतनः । जन्तुः शरीरी पुरुषो, हंसः सत्त्वं पुनर्भवी स्वान्तं चित्तं मनश्चेतो, मानसं हृदयं च हृत् । अन्तःकरणमप्यस्य, संकल्पश्च मनोरथः शीर्षकं मस्तकं मुण्डं, मौलिर्मस्तं च मस्तकः । उत्तमाकं शिरो मूर्धा, करणत्राणमेव च केशा बालाच चिकुरा, अलकाः कुन्तला: कचाः । शिरोरुहास्तीर्थवाका, मूर्धजास्तत्समुच्चये
|| २०३ ॥
॥ २०४ ॥
॥ २०५॥
॥ २०६॥
। २०७॥
|| २०८॥
૩૫૪
For Private And Personal Use Only