________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
केशात्कलापरचना, पाशभारोच्चया अपि । कबरी वेणिका वेणी, धम्मिला गुम्फिताः कचा:
>
केशेषु वर्त्म सीमन्तः कुरुलो भ्रमरालकः । शिखा शिखण्डिका चूडा, बालानं काकपक्षकम् मुखकेशाः श्मश्रु कूर्च:, लोमा रोम तनूरुहम् । रोमावली रोमलता, रोमराजिर्हदूदरे
Acharya Shri Kailassagarsuri Gyanmandir
मुखं तु वदनं वक्त्रं, तुण्डमास्यं तथाननम् । ललाटमलिकं भालं, गोध्यलीके ललाटिका कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः । नकं तु नासिका नाशा, घ्राणं घोणा च शिङ्घिनी नयनं लोचनं नेत्र -मीक्षणं चक्षुरम्बुकम् । अक्षि दृग्दृष्टिरस्यान्त - स्तारका च कनीनिका अर्धदृक्वीक्षणं काक्षः, कटाक्षोऽपाङ्गदर्शनम् । कोधोद्ध्रुवो विकारो यो, भृकुटिर्भुकुटीश्च सा पक्ष्म स्यान्नेत्ररोमाणि भूरू (ध: ? ) व रोमपद्धतिः । गल्लो गण्डो कपोलश्च, चिबुकं त्वधरादयः
ओष्ठोऽधरो दन्तवस्त्रं, तथा च रदनच्छदः । रदना दशना दन्ता, द्विजा दंशा रदा अपि जिह्वा रसज्ञा रसना, कण्ठो निगरणो गलः । अंशः स्कन्धो भुजशिरः, बाहुर्बाहा च दोर्भुजः
हस्तः करः शयः पाणिः, पञ्चशाखश्च स स्मृतः । अङ्गुल्यः करशाखाः स्युः, तथाङ्गुष्ठाङ्गुलौ समौ कामाङ्कुशो महाराज:,, करजो नखरो नखः । करशूक: कररुहो, भुजाकण्टः पुनर्भवः
उपय
For Private And Personal Use Only
॥ २०९ ॥
॥। २१० ॥
॥ २११ ॥
॥ २१२ ॥
॥ २१३ ॥
॥ २१४ ॥
।। २१५ ।।
॥ २१६ ॥
॥ २१७ ॥
।। २१८ ॥
॥ २१० ॥
॥ २२० ॥