________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १८५ ॥
॥ १८६॥
॥ १८७॥
।। १८८॥
॥ १८९ ॥
॥ १९० ॥
अङ्गना मानिनी योषि-द्वर्णिनी वामलोचना । कला सीमन्तिनी भीरू:, सुन्दरी युवतिवशा मुगाक्षी प्रमदा भामा, मुग्धा वामा विलासिनी । कृशोदरी पुरछी च, तन्वी लीलावती वधूः इन्दीवराक्षी तरुणी, श्यामा मन्देक्षणापि च । वामाक्षी मदिराक्षी च, सुभगा तरलेक्षणा उपयाम: परिणयो, विवाहः पाणिपीडनम् । पाणिग्रहणमुद्वाहो, दारकर्म विवाहनम् भर्ता विवोढा रमणो, भोक्ता नाथ: पतिर्धवः । वरो वरयिता कान्तो, वल्लभो दयितः प्रियः प्राणेशः प्रणयी प्रेयान्, प्रेष्ठः प्राणसमोऽभिकः । प्रीतः प्रियतमः सेक्ता, आर्यपुत्रश्च नायकः भार्या सहचरी पत्नी, वल्लभा प्रेयसी प्रिया । कान्ता जाया जनी जाती, गृहदाय परिग्रहः ऊढा पाणिगृहीती च, कलत्रं गृहिणी वधूः । दयिता च प्रियतमा, विनीता च सर्मिणी हृदयेशा प्राणसमा, प्रेष्ठा प्रणयिनी च सा । कुटुम्बिनी गेहिनी च, नायिकाथ स्नुषा वधूः पिता तु जनकस्तातो, वप्ता जनयितापि च । अम्बा माता सवित्री च जनयित्री जनन्यपि नन्दनस्तनयः पुत्रो, दारकः सूनुरुद्वहः । सुतोङ्गज आत्मश्च, पुत्री तु दुहिता सुता बालः स्तनन्धयः पोतः, पाको डिम्भोऽर्भक: शिशुः । कुमारः पृथुकः शाव:, क्षीरकण्ठः किशोरक:
॥ १९१ ॥
॥ १९२॥
॥ १९३ ॥
॥ १९४ ।।
॥ १९५ ॥
॥ १९६ ॥
૩પ૩
For Private And Personal Use Only