SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra चामीकरं शातकौम्भं गाङ्गेयं भर्म हाटकम् । कार्त्तस्वरं जातरूपं, कलधौतं च कर्बुरम् तपनीयं च कल्याणं, रुक्मं जाम्बूनदं वसु । अष्टापदं भूरिचन्द्रो, महारजतभूत्तमे दुर्वर्णं रजतं रूप्यं, तारं खर्जूरमित्यपि । रत्नं वसु मणिस्तस्य भेदा मरकतादयः वैडूर्यवज्रमाणिक्य-नीलमौक्तिकविद्रुमाः । द्रव्यं स्वं द्रविणं वित्तं द्युम्नं रा विभवो धनम् अर्थो लक्ष्मीः स्वापतेयं रिक्थमृद्धं तथा वसु । भूतिर्विभूतिरैश्वर्य-मणिमादिकमष्टधा " 2 www.kobatirth.org " ३५२ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १७६ ॥ ॥ १७७ ॥ ॥ १७८ ॥ अणिमा महिमा चैव, गरिमा लघिमा तथा । प्राप्तिः प्राकाम्यमीशित्वं, वशित्वं चाष्टसिद्धयः महापद्मस्तथा पद्मः, शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च, चर्चाश्च निधयो नव ॥ इति श्रीधरावर्गः ॥ अस्यां श्रीनामामालायां, हर्षकीर्तिकवेः कृतौ । देवव्योमधरावर्षैः काण्डोऽयं प्रथमोऽजनि इति श्रीमन्नागपुरीयतपागच्छाधिराज श्रीहर्षकीर्तिसूरि विरचितायां शारदीयाभिधायां लघुनाममालायां प्रथमः काण्डः समाप्तः ॥ मनुष्यो मानवो मर्त्यो, मनुजो मानुषो नरः । ना विट् पञ्चजनो भूस्पृक्, पुरुषः पूरुषः पुमान् स्त्री नारी वनिता योषा, ललना महिलाऽबला । कामिनी भामिनी रामा, रमणी च नितम्बिनी ॥ १७९ ॥ १८० ॥ ॥ १८१ ॥ ॥ १८२ ॥ 11 3 11 ॥ १८३ ॥ ॥ १८४ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy