________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥१६४ ॥
।। १६५ ॥
॥ १६६॥
।। १६७ ॥
॥१६८॥
॥ १६९ ॥
उक्षा गौर्वृषभोऽनड्वान्, भद्रः शाक्करशाक्वरौ । बलीवर्दः सौरभेयः, ककुद्यान् शांकरो वृषः सुरभिौरनड्वाही, सौरभेयी च रोहिणी। तम्पा तम्बार्जुनी धेनु-महेियी च निलिम्पिका क्रमेलकोष्ट्रकरभा, दासेरः कण्टकाशनः । वराहः शूकर: कोलो, गर्दभो रासभो खरः कुर्कुरः सारमेयः श्वा, भषणः श्वानमण्डलौ । शाखामृगो मर्कटश्च, वनौका वानरः कपिः शृगालो जम्बूक: क्रोष्टा, फेरुगोमायुफेरवाः । उरभ्रो मेण्ढको मेष, एडको विहुडोरुणाः अजस्तुच्छगलश्छाग-श्छगो वस्त: स्तभः पशुः । अग्निर्वह्निर्वृहद्भानु-र्दहनो ज्वलनोऽनल: वैश्वानरः कृष्णवा, चित्रभानुर्धनञ्जयः । आशुशुक्षणिरप्पित्तं, जातवेदा हुताशनः हव्यवाहो हुतवहो, बर्हिः शुष्मा विभावसुः । आश्रयासो वायुसखः, पावको हुतभुक् शिखी वृषाकपि:तिहोत्रः, कृशानुश्छागवाहनः । हिरण्यरेताः सप्ताचिः, शोचिष्केशस्तनूनपात् कृपीटयोनिर्दमुना, रोहिताश्व उषर्बुधः । स्वाहापतिः शुचिः शुकः, बहिर्ज्योतिर्विरोचनः ज्वालाजिह्वः सप्तमन्त्रः, शुष्मा धूमध्वजोऽपि च । वडवानल ऊर्वश्च, वाडवो वडवामुखः संवर्तक: समुद्राग्नि: दवो दावो वनानलः । सुवर्णं कनकं स्वर्णं, हिरण्यं हेम काञ्चनम्
॥ १७० ॥
।। १७१ ॥
॥ १७२॥
॥ १७३ ।।
॥ १७४ ॥
॥ १७५५ ।।
૩૫૧
For Private And Personal Use Only