________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५२ ॥
।। १५३ ॥
॥१५४ ॥
॥१५५ ॥
|| १५६ ॥
॥ १५७ ॥
शेषो नागाधिपोऽनन्तः, सहस्रवदनश्च सः । विषस्तु गरलं श्वेडो, रसस्तीक्ष्णश्च तद्भिदः हालाहल: कालकूटो, वत्सनागः प्रदीपनः । सौराष्ट्रिको ब्रह्मपुत्रः, काकोलो दारदोऽपि च मृगः कुरङ्गो हरिण, एण: सारङ्ग एव च । वातायुः कृष्णसारश्च, रुरुमुख्यास्तु तद्भिदः सिंहो मृगेन्द: पारीन्द्रो, हर्यक्ष: केसरी हरिः। कण्ठीरवो महानादो, मृगारिनखरायुधः पञ्चाननो गजारातिः, पुण्डरीकस्तु चित्रकः । द्वीपी व्याघ्रश्चित्रकायः, शार्दूलः शरभोऽष्टपात् गजो मतङ्गजो हस्ती, मातङ्गः कुञ्जरः करी, इभः स्तम्बेरमः कुम्भी, दन्ती दन्तवलो द्विपः द्विरदः सिन्धुरो नागः, सामयोनिर्महामृगः । अनेकपश्च करटी, करेणुः पीलुवारणी घोटकस्तुरगो वाजी, तुरङ्गश्च तुरङ्गमः । अर्वा वाहो हयः सप्ति-र्गन्धर्वोऽर्वतिरेव च काम्बोजाः सैन्धवा देश्या, आजानेया वनायुजाः । अश्वा वामी च वडवा, किशोरो बालघोटक: अनश्च शकटो गन्त्री, शताङ्गः स्यन्दनो रथः । शिबिका याप्ययानं च, दोला प्रेङ्खा सुखासनम् वाहनं धोरणं यानं, पत्रं युग्यङ्गन्त्र्यध्वगम् । ध्वजश्च केतनं केतुः, पताका चिह्नमेव च मार्गोऽध्वा निगमः पन्थाः, पदवी वर्त्म पद्धतिः । अयनं सरणिः पद्याः, रथ्या वीथी च सञ्चरः
॥ १५८ ॥
॥ १५९ ।
॥ १६०॥
॥ १६१॥
||१६२ ।।
॥ १६३॥
૩પ૦
For Private And Personal Use Only