________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४० ।।
॥ १४१ ॥
॥ १४२॥
॥ १४३ ।।
॥ १४४ ॥
॥१४५ ॥
पत्रं पर्ण दलं बहँ, पलाशं छदनं छदः । नवं तत्स्यात्किशलयं, प्रवालं पल्लवो नलः फुल्लं विकसितं स्मेरं, प्रबुद्धं विकचं स्मितम् । उज्जृम्भितं चोन्मिषितं, हसितं च विजृम्भितम् स्फुटं प्रफुल्लमुत्फुल्लं, विनिद्रं दलितं तथा। संकुचितं मीलितं च, निद्राणं मुद्रितं स्मृतम् खण्डमाराम उद्यानं, विपिनं काननं वनम् । वाटिकोपवनं दावः, कक्षः कान्तारनिष्कुटौ अटव्यरण्यं गहनं, सान्द्रेकुओ निकुञ्जवत् । वृक्षो द्रुमस्तरु: शाखी, पादपश्च महीरुहः अनोकहोंहिप: सालः, पलाशी विटपी कुठः । अगो नगो मगो द्रुश्च, फलवांश्च वनस्पतिः केतकः केतकी जाती, चम्पको मल्लिका जपा। बन्धूको यूथिका कुन्द, इत्याद्याः पुष्पजातयः आम्रो रसालो माकन्दः, सहकारञ्चूतनूतवत् । रम्भा तु कदली मोचा, समौ करकदाडिमौ गन्धसारो मलयजः, श्रीखण्डश्चन्दनद्रुमः । तैलपणिकमेवेदं, गोशीर्षं हरिचन्दनः सर्पो भुञ्जगो भुजगः, पन्नगोऽहिर्भुजङ्गमः । उरगो जिह्मगो भोगी, दन्दशूकः सरीसृपः दर्वीकरो विषधरो, द्विजिह्वः पवनाशनः । काकोदरो दीर्घपृष्टः, वृदाकुः कुण्डली फणी आशीविषो गुप्तपदो, व्यालो नागो बिलेशयः । चक्षुःश्रवाः काद्रवेयः, सर्पराजस्तु वासुकि:
॥१४६ ॥
॥ १४७॥
॥ १४८॥
।। १४९॥
|| १५० ॥
॥ १५१ ॥
3४८
For Private And Personal Use Only