________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। १२८॥
।। १२९ ॥
।। १३०॥
उदपानं प्रहि: कूप-श्चान्धुर्वापी तु दीर्घिका । पुष्करिणी खातकं च, निपानं तु जलाशयः सरस्तडाग: कासारः सरसी च सरोवरम् । पद्माकरः स एव स्याद्-वेशन्तः पल्वलं लघु कमलं पुष्करं पद्म-मरविन्दं कुशेशयम् । अम्भोरुहं तामरसं, राजीवं च महोत्पलम् बिशप्रसूनं नलिनं, शतपत्रं सरोरुहम्। सहस्रपत्रं जलजं, सरोजं सरसीरुहम् पङ्केरुहं सरसिज-मब्जे वारिजमम्बुजम । नालीकं पङ्कजाम्भोजे, कजं चाह्नि विकाशभाक् रक्तोत्पलं कोकनदं, पुण्डरीकं सिताम्बुजम् । पद्मिनी च कमलिनी, नलिनी बिशिनीत्यपि अम्भोजिनी नीरजिनी, पङ्कजिन्यब्जिनी स्मृता ।
॥ १३१ ॥
॥ १३२ ।।
॥ १३३ ॥
॥ १३४॥
।। १३५ ।।
।। १३६ ॥
अथोत्पलं कुवलयं, कुमुदं कैरवं सितम् । इन्दीवरं च तन्नीलो-त्पलं रात्रिविकाशभाक् कुमुद्वती कुमुदिनी, कैरविणी शशिप्रिया, दण्डो नालं मृणालं च, बिशं तन्तुश्च तन्तुलम् द्विरेफो भ्रमरो भृङ्गो, रोलम्बोऽलि: शिलीमुखः । इन्दिन्दिरश्चञ्चरीकः, षट्पदश्च मधुव्रतः मधुपोऽलीमधुकरो, मधुलिट् पुष्पलिट् स्मृतः । वल्ली प्रतानिनी वीरुत्, व्रततिर्वल्लरी वला पुष्पं प्रसूनं कुसुमं, सून सुमनसः सुमम् । मकरन्दः पुष्परसः, परागः पुष्पजं रजः
।। १३७ ॥
॥ १३८ ॥
॥ १३९ ॥
३४८
For Private And Personal Use Only