________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥२४॥
॥ २५ ॥
॥ २६ ॥
॥ २७॥
॥ २८॥
।। २९ ॥
खण्डपर्शविरूपाक्षो, वरदो भाललोचनः । इन्दुमौलिः स्मरारिश्च, भीमो वृषभवाहनः लक्ष्मी: श्री: कमला पद्मा, मा रमा कमलालया। इन्दिरा हरिपत्नी सा लोकमाताब्धिनन्दिनी ईश्वरी पार्वती गौरी, भवानी हिमवत्सुता। उमा शिवाम्बिका दुर्गा, काली कात्यायनीश्वरी रुद्राणी चण्डिका चण्डी, मृडानी मेनकात्मजा । अपर्णार्या सती देवी, गिरिजा सर्वमङ्गला दाक्षायणी च शर्वाणी, महामाया महेश्वरी । भैरवी भूतनाथा च, शांकरी शिववाहना अनङ्गो मदनः कामो, मारः पञ्चशरः स्मरः । मनोभवो रतिपतिर्मन्मथो मकरध्वजः पुष्पधन्वा मनसिजः, कन्दर्पो विषमायुधः । शम्बरारिः सूर्पकारि-दर्पको मीनकेतनः अनन्यजो मधुसखः, प्रद्युम्नः कुसुमायुधः । शृङ्गारयोनिः पुष्पेषुः, संकल्पात्मा रमासुतः हृच्छयः कमनः कन्तु-र्जराभीरुश्च तच्छराः । मोहनोन्मादनौ शोष-णश्च ताडनमारणौ कार्तिकेयो गुहः स्कन्दः, सेनानी: पार्वतीसुतः । षाण्मातुरो महासेन: षण्मुखः शिखिवाहनः शरजन्माग्निभूः स्वामी, विशाख: क्रौञ्चभेदनः । तारकारि शक्तिधरः, कुमारो बहुलात्मजः विबुधा देवता देवा-स्त्रिदशा निर्जराः सुराः । आदित्या मरुतो लेखा, निलिम्पा नाकिनोऽमरा:
॥३०॥
॥ ३१॥
॥ ३२ ॥
॥३४॥
।। ३५ ॥
336
For Private And Personal Use Only