________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥
२
॥
॥ ३ ॥
॥४
॥
पू.आ. श्री हर्षकीर्तिसूरिविरचिता
॥शारदीया नाममाला ॥ प्रणम्य परमात्मानं, सच्चिदानन्दमीश्वरम् । ग्रनाम्यहं नामामालां, मालामिव मनोरमाम् परमात्मा परम्ब्रह्म, परञ्ज्योतिरगोचरः। निरञ्जनश्चिदानन्दः, परमः परमेश्वरः देवाधिदेवः सर्वज्ञो, वीतरागो जिनेश्वरः । तीर्थङ्करो जगन्नाथो, जिनोऽर्हन् भगवान् प्रभुः वाग्देवी शारदा ब्राह्मी, भारती गी: सरस्वती। हंसयाना ब्रह्मपुत्री, सा सदा वरदायिनी विनायक: पशुपाणि-विघ्नराजो गजाननः । द्वैमातुर एकदन्तो, लम्बोदरगणाधिपौ गौरीसुतश्च हेरम्ब-स्तथा मूषकवाहनः । कार्यारम्भेषु सर्वेषु सिद्धिबुद्धिप्रदोऽस्तु सः सुगतः श्रीधनो बुद्धो, बोधिसत्त्वस्तथागतः । द्वयवादी दशबलो, जिनः शौद्धोदनिर्मुनिः ब्रह्मा प्रजापतिः स्रष्टा, विधिर्वेधाः पितामहः । हिरण्यगर्भो द्रुहिणः, परमेष्ठी चतुर्मुखः धाता विधाता लोकेशो, विरञ्चिविश्वसृड् ध्रुवः । सुरज्येष्ठ: कमलभूः, स्वयम्भूर्नाभिभूरजः पद्मनाभोऽग्रयोनिः स्या-दात्मभूः कमलासनः । तत्पुत्रो नारदो वीणा संयुतो हंसवाहनः श्रीपतिः केशवः कृष्णो, गोविन्दो माधवोऽच्युतः । दामोदरो दैत्यरिपु-विष्णुनारायणौ हरिः
॥६॥
॥
७
॥
॥८॥
॥९॥
॥ १० ॥
॥ ११ ॥
330
For Private And Personal Use Only