________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परचित्ते यवीयान् योः ज्येष्ठपत्नीं परामृशन् । यः पश्चिमश्च ज्येष्ठोऽपि परचित्तः स उच्यते पुष्पजं क्षोमजं चर्म्मकोशजं भर्म्मजं तथा । गुणजं च समुद्दिष्टं तद्भेदा वस्त्रजातिषु बिम्बारक्तधरा या स्त्री बिम्बोष्ठीं तां विनिर्द्दिशेत् । या स्यात् संक्रीडनपरा ललना तां विनिर्द्दिशेत् दूर्वाकाण्डप्रतीकाशा कुम्भौ यस्यास्तनू कुचौ । सर्वरूपविविक्ताङ्गी सा भवेद्वरवर्णिनी लावण्ययुक्ता या नारी ललितां तां विनिर्द्दिशेत् । या मत्ता मत्तवज्ज्योतिः सा ज्ञेया मत्तकाशिनी
भूरिश्च भूरिमुद्दिष्टम् अन्नं श्रव इति स्मृतम् । भूरिश्रवो ददातीह तस्माद् भूरिश्रवो हि सः चतुष्पादुर्विंशतिभुजो लोहितग्रीव एव च । निसर्गाद्दारुणात्क्रूराद्रवणाद् रावणः स्मृतः रोषणा या भवेन्नारी भामिनीं तां विनिर्दिशेत् । न्यग्रोधलक्षणं विद्याद्दधाना परिमण्डलम् ताभ्यामुपेता वनिता न्यग्रोधपरिमण्डला । तत्तुल्ये चाक्षिणी यस्याः सा स्त्री राजीवलोचना वर्णप्रमाणनिर्घोषोऽछिन्नसंपद्भिरन्वितः । राजीवमन्ये शंसन्ति स्निग्धवर्णं सितासितम् किंचिदुत्तरतद्योगात्सीता राजीवलोचना । बलिभिर्यास्त्रिभिर्युक्ता शङ्खकण्ठी उदाहृता
..... जराकराकारं स्पन्दनाग्रमिवाग्रतः । वस्त्वे... ति तज्ज्ञेयं तस्यैवाग्रं .....
334
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ १३५ ॥
॥ १३६ ॥
॥ १३७ ॥
॥ १३८ ॥
॥ १३९ ॥
१४० ॥
॥ १४१ ॥
॥ १४२ ॥
॥ १४३ ॥
॥ १४४ ॥
।। १४५ ।।
॥ १४६ ॥