________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स्नेहभाग्यक्षये चैव मन्दशब्दो निगद्यते । नातीत्य वर्तते यत्र तदध्यात्मं प्रचक्षते चेतसश्च समाधानं समाधिरिति गद्यते । सर्वक्लेशविनिर्मुक्तो स हि दान्त इति स्मृतः निर्ममो निरहङ्कारो विज्ञेयः छिन्नसंशयः । प्रदाता देशकालज्ञः समाधिस्थः स उच्यते मुखरोऽल्पमतिर्यस्तु सक्रोधश्चैव कीटकः । वृत्तिर्यत्र तु गृहयानां परोक्षे बहिः तत्क्रिया आहारव्यवहारेषु सा प्रीतिर्निरुपस्करा । परस्परं स्वदारेषु सतां येषां प्रवर्तते विश्रम्भात्प्रणयाद्वापि सा प्रीतिर्निरुपद्रवा ।. यशः ख्यातिरिति प्रोक्तं तद्योगात्प्राहुरुच्यते कीर्तिख्यातियशोयोगाद् भगवन्निति चोच्यते । प्रियदानेषु यः शुद्धः स उदार इति स्मृतः रजस्वला तु या नारी सा चोदक्या प्रकीर्तिता । प्रीतिर्भावकिये स्वच्छरक्षालिङ्गितनुं विपुम् ? तेजो रेतसि दीप्तौ तपो हि स्याद् वृषार्थकः । योऽन्यजातो हनो जीवः स शरारू इति स्मृतः मिथ्यादृष्टिरहंमानी नास्तिकः सः प्रकीर्तितः । कामः क्रोधश्च वै पूर्वे लोभोऽसत्यं च मध्यमे अन्ते मोहो विषादश्च यस्य ज्ञेयः स षड्वदः । अमृते जारजः कुण्डो मृते भर्त्तरि गोलक: अनयोर्योऽन्नमश्नाति स कुण्डाशी निगद्यते । भ्रूणस्त्री गर्भिणी बाला ब्राह्मणी बह्मजीविनी
338
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १२३ ॥
॥ १२४ ॥
।। १२५ ।।
॥ १२६ ॥
॥ १२७ ॥
॥ १२८ ॥
॥ १२९ ॥
॥ १३० ॥
॥ १३१ ॥
।। १३२ ।।
॥ १३३ ॥
॥ १३४ ॥