________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वामः पयोधरः प्रोक्तो वामः स्याद्द्रविणं हरः । वामश्च मदनः प्रोक्तो वामश्च प्रतिकूलके आगोपो गोपको ज्ञेयः क्वचिदागोपको ध्वजः । उरश्चाङ्कः समाख्यातः स्थानमङ्कः स्मृतस्तथा वासरस्तु स्मृतो नागो वासये दिवसो मतः । विभावसुर्निशा ज्ञेया गन्धर्वश्च क्वचिन्मतः शर्वर्यो रात्रयः प्रोक्ताः शर्वर्यश्च स्त्रियो मताः । सान्द्रं धनमिति प्रोक्तं स्निग्धं सान्द्रं निगद्यते स्वः स्वर्गस्य मतं नाम स्वः सुखं क्वचिदुच्यते । स्व आत्मा चैव निर्दिष्टः स्वः प्रोक्तो गृहमूषिकः ककुश्छन्दोविशेषज्ञो मतः शास्त्रेपि ना ककुप् । ककुग्महीरुहः प्रोक्तो ज्ञेयास्तु ककुभो दिशः क्षयं वेश्म समुद्दिष्टं क्षयं रोगं प्रचक्षते । जलदस्तु प्लवो ज्ञेयः प्लवो ज्ञेयस्तथोडुपः प्रासादो मण्डपः प्रोक्तो विहारश्चापि कथ्यते । घनं घनं विजानीयाद् घनं विपुलमुच्यते प्रयुज्यते च कस्मिंश्चिद् घनं सङ्घातवाद्ययोः । वरूथं स्यन्दनाग्रं स्याद्वरूथं वेश्म उच्यते चमूश्च वर्म सहसा प्रवदन्ति मनीषिणः । असुराश्च सुरा ज्ञेयाः क्वचिद्देवारयोऽसुराः नागाश्च द्विरदा ज्ञेयाः पन्नगाश्च क्वचिन्मताः । गन्धर्वश्च तथा वायुः क्वचित्स्याद् देवगायनः तार्क्ष्यो हयः समुद्दिष्टस्तार्क्ष्यश्चापि पतत्रिराट् । बालेयानसुरानाहुर्वालेयांश्च क्वचित् खरान्
३२७
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
।। ३९ ।।
1180 11
॥ ४१ ॥
॥ ४२ ॥
॥ ४३ ॥
॥ ४४ ॥
॥ ४५ ॥
॥ ४६ ॥
॥ ४७ ॥
1182 11
॥ ४९ ॥
॥ ५० ॥