________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५१ ॥
॥ ५२॥
॥ ५३॥
।। ५४॥
॥ ५५ ॥
॥५६॥
तृणी वनस्पतिः प्रोक्ता क्वचिदामा॑श्च कथ्यते । शिखरी वृक्ष उद्दिष्ट: शिखरी पर्वतः स्मृतः द्विजो विप्रश्च दन्तश्च द्विजः पक्षी निगद्यते । चौरो मलिम्लुचो ज्ञेयोः वातश्चापि मलिम्लुचः आत्मजं रक्तमुद्दिष्टं सुत: कामस्तथैव च । कीनाशो मृतको ज्ञेयः कीनाशश्चापि राक्षसः कीनाशोऽग्निः कृतघ्नश्च कृपणो यम एव च । कीनाशः कर्षको ज्ञेयः कीनाशश्च वृकोदर: अवदातं प्रधानं स्यादवदातं च पाण्डुरम् । ज्योतिल्र्लोचनमुद्दिष्टं ज्योतिर्नक्षत्रमुच्यते ज्योतिश्च गदितो वह्निः काव्येषु मुनिपुङ्गवैः । प्रधानं सज्जनं ज्ञेयं प्रधानं श्वेतमुच्यते अब्द: संवत्सरो ज्ञेयो मेघश्चापि क्वचिन्मतः । बलाहका महामेघाः शिखरी च बलाहकः तोयदं जलदं प्राहुस्तोयदं कथ्यते घृतम् । जीमूतश्च मतो नागो जीमूतः क्वचिदम्बुदः पौलस्त्यं तु मतं युद्धं पौलस्त्यं पौरुषं विदुः । शुचिकृद्रजकश्चैव प्रोक्तो नित्यं बुधै रसः पर्जन्यं जलदं प्राहुः पर्जन्यं तु शतक्रतुः । शिलीमुखाः स्मृता बाणा भ्रमराश्च शिलीमुखाः लेखा सीमेति विज्ञेया लेखा चित्रकृतौ मता। अम्बरीषं क्वचिद्भ्राष्ट्रं क्वचिद्युद्धं निगद्यते पुंस्त्वं चापि मतं युद्धं पुंस्त्वं पौरुषमुच्यते । विद्वांसोऽरिपवो ज्ञेया विद्वांसस्त्वसवो मताः
॥ ५७॥
|| ५८ ॥
।। ५९॥
।। ६०॥
॥६२ ॥
૩૨૮
For Private And Personal Use Only