________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तोयं सति गदितं निलयं स निगद्यते । संवरं च जलं प्रोक्तं संवरः पर्वतो भवेत् संवरश्चाऽसुरः ख्यातो यो बिभर्ति रसां प्रियाम् । स्वरवाक्क्ष्मास्विडां प्राहुरिडा चाम्बरदेवताम् पत्नीं चन्द्रेरिडां प्राहुरिला तत्समतां गता । अदितिः पृथिवी ज्ञेया देवमाताऽदितिः क्वचित् अध्यूढा भार्या परित्यक्ता त्वद्भिदिश्च निगद्यते । वृषो धर्म्मः क्वचिज्ज्ञेयो गवामपि पतिर्वृषः वृषा कर्णश्च गदितो वृषा चोक्तः शतक्रतुः । रौहिणेयो बलः प्रोक्तो रौहिणेयो बुधः क्वचित् बलदेवो मतः शेषो नागो वा शेष उच्यते । रामस्तु लाङ्गली ज्ञेयो रामो दाशरथिः क्वचित् रामश्च शुक्लो वर्णो रामश्च क्षत्रनाशनः । वराहः केशवः ख्यातो वराहो जलदः क्वचित् वराह: शकरो ज्ञेयो विष्णुर्मेघो हरिस्तथा । अजाराट्स्मरेन्दवो ज्ञेयास्त्रिनेत्रश्चाप्यजो मतः अजः पशुश्च विख्यातो तथाजौ ब्रह्मकेशवैौ । शरीररजः स्मृतो रोगः पुत्रश्चापि शरीरज: ज्ञेयं पुष्करमब्जं च नागनासाग्रमेव च । कूलं नभः समाख्यातं कूलं रोधः प्रचक्षते खं चानन्तमिति प्रोक्तमनन्तं च बलं क्वचित् । विष्णुः क्वचिदनन्तः स्यान्नागश्चानन्त उच्यते प्रजापतिः स्मृतो राजा ब्रह्मा चापि प्रजापतिः । प्रजापतिः स्मृतः क्षत्ता क्षत्ता च चर उच्यते
325
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥। २७ ॥
॥ २८ ॥
॥ २९ ॥
11 30 11
॥ ३१ ॥
॥ ३२ ॥
॥ ३३ ॥
॥ ३४ ॥
॥ ३५ ॥
॥ ३६ ॥
॥ ३७ ॥
1132 11