________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अर्क इष्टस्तु मघवान् घर्मांशुरर्क उच्यते । मन्थी राहुश्च चन्द्रश्च ग्रहो मन्थी निरुच्यते केतवो रश्मयो ज्ञेयाः केतवश्च महाध्वजाः । तमोनुदः सहस्रांशुरग्निश्चापि प्रकीर्त्यते मयूखाः किरणा ज्ञेया मयूखाश्चापि कीलकाः । सप्तर्षिरुत्सवः प्रोक्तः सप्तान्ये ऋषयः क्वचित् वसवः शंवरा उक्ता देवाश्च वसवो मताः । नक्षत्रं धिष्ण्यमित्युक्तं गेहं धिष्ण्यं मतं क्वचित् वासोऽम्बरमिति ख्यातमम्बरं च नभः स्थलम् । पयः सलिलमुद्दिष्टं पयः क्षीरं मतं क्वचित् शिवं पानीयमुद्दिष्टं शिवं श्रेयः शिवं सुखम् । शिवं व्योमपतिं प्राहुः शिवं श्रेष्ठं प्रचक्षते क्षरं जलं विजानीयात्क्वचिन्मेघं विदुः क्षरम् । स्यन्दनं चाम्बु निर्दिष्टं स्यन्दनश्च महारथः कृष्णं तमः समाख्यातं कृष्णश्चाधोक्षजस्तथा । अमृतं क्षीरमित्युक्तं क्वचिच्चेष्टं समुद्रजम् शवं च सलिलं प्रोक्तं मृतमाहुः शवं तथा । तोयं घृतमिति प्रोक्तं घृतं सर्पिः क्वचिद्भवेत् पानीयं च विषं प्रोक्तं क्वचिद्धालाहलं विषम् । हस्तिहस्तः करः प्रोक्तः करो हस्तः प्रचक्ष्यते कीलालं रुधिरं प्रोक्तं नीरं चैव प्रशस्यते । भुवनं सलिलं प्रोक्तं आकाशं भुवनं स्मृतम् प्रवालं कोमलं ज्ञेयं कोमलं स्पष्टवाचकम् । सदनं च स्मृतं तोयं सदनं वेश्म उच्यते
३२५
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
1136 11
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥